________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जथः- वर्षाकाले स्थितानां साधुनाम्, साध्वीनां च मध्ये यः कश्चित् साधुः सङ्ख्यादत्तिको वर्त्तते सङ्ख्या वर्त्तते दत्तेः - दर्व्याः यस्य स सङ्ख्यादत्तिकः, सङ्ख्यादवकः । 'एकस्मिन् गृहे एकवारं दर्ष्या कृत्वा पात्रे यश्चाऽऽहारः प्राप्यते तावानेव गृह्यते' एतादृशं यस्तपः कुरुते; तस्य साधोः पञ्च दत्तयो भोजनस्य, पञ्च लोष्टिकाः पानीयस्य मुत्कलाः सन्ति । अथवा चतस्रो भोजनस्य, पञ्च पानीयस्य मुत्कलाः सन्ति । अथवा पञ्च भोजनस्य चतस्रः पानीयस्य मुत्कलाः सन्ति । तत्र लवणाऽऽस्वादमात्रमपि दत्तिर्गृह्यते, लवणाऽऽखादो यथा स्तोको भवति तथा स्तोकप्रमाणाऽपि एका दत्तिर्गण्यते । पञ्च दत्तयश्चेद् मुत्कला भोजनस्य भवेयुः, पञ्च चेत् पानीयस्य मुल्कला भवेयुस्तदा अधिका न गृहीतव्याः, न्यूना गृहीतव्याः । कदाचिद् वृद्धाभिर्दत्तिभिस्तिभिरेव भक्तस्य पूर्त्तिः स्यात् तर्हि वर्द्धते द्वे दत्ती, पानीयस्य पञ्चसु दत्तिषु न प्रक्षेपणीये- साङ्ख्यादत्तिकेन साधुना पानीयस्य सप्त दत्तयो न करणीयाः । एवं पानीयस्य दत्तय आहारस्य दत्तिषु न क्षेपणीयाः, तस्मिन् दिने तावत्प्रमाणाभिरेव स्वल्पाभिरपि सारणीयम्, न च दत्तीनां विनिमयं कृत्वा गृहस्थगृहे द्वित्रिवारं भ्रमणीयम् अयं परमार्थः ॥ एषा दशमी समाचारी ॥ १० ॥ अथ संखडिविचाररूपा एकादशमी समाचारी कथ्यते
वासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा, निग्गंथीण वा जाव-उवस्सयाओ सत्त
For Private and Personal Use Only