________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं ॥२६॥
| कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या.
भवति, सान्निध्यकारी भवति, तेनाऽसिक्थं शुद्धोष्णपानीयं पातव्यम् ॥ वर्षाकाले स्थितानां साधूनाम् , तथा साध्वीनां मध्ये येन भक्त-पानं प्रत्याख्यातम्-भक्त-पानस्य प्रत्याख्यानं कृतं अर्थात्-अनशनं गृहीतं तस्य साधोः एकम् उष्णपानीयं कल्पते, तदपि उष्णपानीयमऽसिक्थम् सिक्थरहितम्-न च ससिक्थम् । यतः सिक्थसहितजलस्य पानाद् आहारदूषणं लगति, पुनस्तद् उष्णजलं परिपूतम्-वस्त्रगालितम् , न चाऽपरिपूतम्अगालितम् । पुनस्तद् उष्णजलं परिमितं स्तोकं स्तोकम् , न चैकवारमेव प्रचुरं प्रदेयम् । तस्य अजीर्णादिदोसंभवात् । पुनस्तद् उष्णजलं बहुसंपन्नम्-बहुभ्यो दर्शितम् न च अबहुदर्शितम् । एषा नवमी समाचारी ॥९॥ अथ दत्तिसङ्ख्यारूपा दशमी समाचारी कथ्यतेवासावासं पजोसविअस्स भिक्खुस्स संखादत्तियस्स कप्पंति पंच दत्तीओ भोअणस्स पडिगाहित्तए पंच पाणगस्स, अहवा चत्तारि भोअणस्स पंच पाणगस्स, अहवा पंच भोअणस्स चत्तारि पाणगस्स । तत्थ णं एगा दत्ती लोणासायणमित्तमवि पडिगाहिआ सिया, कप्पइ से तदिवसं तेणेव भत्तट्टेणं पजोसवित्तए, नो से कप्पइ दुचंपि गाहावइकुलं भत्ताए वा, पाणाए वा निक्खमित्तए वा, पविसित्तए वा ॥ २६ ॥
॥२६॥
For Private and Personal Use Only