________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तद्यथा - आयामम्-धान्यस्य उत्श्रावणम् १, सौवीरम् - काञ्जिकजलम् २, शुद्धविकटम् - उष्णजलम् ३ । अथवा वर्णान्तरादिप्राप्तम्-वर्ण- गन्ध-रसैः परावर्तितं शुद्धं पानीयं शुद्धं सद् विकटम् - प्रासुकं शुद्धविकटम् एतस्यार्थः । शुद्धं पानीयम् - वर्णान्तरादि प्राप्तं तच्छुद्धम्, विकटं प्रासुकं जातं तच्छुद्धविकटम् उच्यते, अयमप्यर्थो वाच्यः ॥
वासावासं पज्जोसवियस्स विगिट्ठभत्तियस्स भिक्खुस्स कप्पइ एगे उसिणवियडे पडिगाहित्तए, सेवि णं असित्थे नो चेव य णं ससित्थे । वासावासं पज्जोसवियस्स भत्तपडियाइक्खियस्स भिक्खुस्स कप्पइ एगे उसिणवियडे पडिगाहित्तए, से विय णं असित्थे नो चेव णं ससित्थे, सेवि य णं परिपूए नो चेव णं अपरिपूए, से वि य णं परिमिए नो चेव णं अपरिमिए, से विअ णं बहुसंपन्न नो चेव णं अबहुसंपन्ने ॥ २५ ॥
अर्थ :- वर्षाकाले स्थितानां साधूनाम्, तथा साध्वीनां मध्ये यः साधुर्विकृष्टभक्तिकस्तस्योपवासत्रयाधिकतपस्कर्चुर्मुने रेकमुष्णविकटं त्रिदण्डोत्कालितमुष्णं जलं कल्पते, नाऽन्यत् । तदप्युष्णजलं धान्यसिक्थरहितम् असिक्थं ग्राह्यम्, , तत्रैतत्कारणम्-प्रायेण त्रिभ्य उपवासेभ्यः योऽधिकं तपः करोति तस्य शरीरे देवाऽऽवेशो
For Private and Personal Use Only