SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra क.स. ४४ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रभाते आनीतस्याऽऽहारस्य सन्ध्यायां यावद्रक्षणे दोषोत्पत्तिः स्यात् तस्माद् वारत्रयमाऽऽहारमानीय भोज्यम् ॥ वर्षाकाले स्थितानां साधूनां विकृष्टभक्तकस्य-उपवासत्रयाद् अधिकतपस्कर्त्तुः साधोर्गृहस्थस्य गृहे भक्त - पानार्थं निष्क्रमितुम्, प्रविशितुं कल्पते सर्वो गोचरकालस्तस्य पारणादिवसे, यदा यस्य कस्यचिद्वस्तुनः इच्छा भवेत् तदा गृहस्थगृहे गत्वा, आहाराद्यानीय भोक्तव्यमेषाऽष्टमी समाचारी ॥८॥ अथ नवमीं पानकसमाचारीं वदति वासावासं पज्जोसवियस्स निश्चभत्तियस्स भिक्खुस्स कप्पंति सबाई पाणगाई पडिगाहित्तए । अर्थ:-वर्षाकाले स्थितानां साधूनाम्, साध्वीनां मध्ये यो नित्य भोजी साधुस्तस्य नित्यभक्तिकस्य साधोः कल्पन्ति सर्वाणि पानीयानि गृहीतव्यानि । 'आचाराङ्गे'- एकविंशतिप्रसुकपानीयानि तानि सर्वाणि योग्यानि । तत्र नव पानीयानि सूत्रोक्तानि तानि इमानि - उत्खे दिमम् १, संखेदिमम् २, तन्दुलोदकम् ३, तिलोदकम् ४, तुषो दकम् ५, यवोदकम् ६, आयामम् ७, सौवीरम् ८, शुद्धविकटम् ९ । अपराणि द्वादशानि, तानि इमानि - आचाम्लोदकम् २, कपित्थोदकम् २, वीजपूरोदकम् ३, द्राक्षोदकम् ४, दाडिमोदकम् ५, खर्जूरोदकम् २, नालिकेरोदकम् ७, कसेलोदकम् ८, आमलोदकम् ९, चिणोदकम् १०, बदिरोदकम् ११, अम्बाडोदकम् १२ । एवं नित्य भोजिनः सर्वाण्यपि जलानि गृहीतुं कल्पन्ते इत्यर्थः । यानि रस- गन्ध-स्पर्शैः परिणितानि भवेयुस्तानि गृह्णीयात् ॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy