________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
॥२५८॥
कल्पद्रुम कलिका वृचियुक्कं. व्याख्या.
पज्जोसवियस्स अटुमभत्तियस्स भिक्खुस्स कप्पंति तओ गोअरकाला गाहावइकुलं भत्ताए वा,
पाणाए वा निक्खमित्तए वा, पविसित्तए वा ॥ २३ ॥ वासावासं पज्जोसवियस्स विगिटुभI तिअस्स भिक्खुस्स कप्पंति सवे वि गोअरकाला गाहावइकुलं भत्तए वा, पाणए वा निक्ख
मित्तए वा, पविसित्तए वा ॥ २४ ॥
अर्थः-वर्षाकाले स्थितानां साधूनां मध्ये य एकान्तरभोजी साधुर्भवेत् तस्याऽपि एकवारं गोचरीकालः कल्पते, परमायं विशेष:-यो मुनिरकान्तरोपवासं करोति स मुनिः प्रभातसमये प्रथमप्रहरमध्ये 'आवस्सही' इति कृत्वा उपाश्रयाद् निःसृत्य उद्गमादिदोषविशुद्धम् आहारमानीय भुञ्जीत, तक्रादिकं पिबेत्, पश्चात् पात्रादिकं प्रक्षाल्य, वस्त्रेण लूषयित्वा तिष्ठेत् । यदा तावन्मात्रेणाऽऽहारेण तृप्तिः स्यात् तदा तस्मिन् दिने तथैव स्थेयम् , यदा न सरति, पुनः क्षुधा लगति तदा द्वितीयवेलायामपि भक्त-पानीया) गृहस्थस्य कुले निःसरति, प्रविशति च । यतः प्रातस्तस्य पुनरुपवासः करणीयोऽस्ति ॥ वर्षाकाले स्थितानां साधूनां मध्ये षष्ठभक्तकस्यउपवासद्वयकर्तुः साधोर्द्विवारं गोचरीसमयः, भक्त-पानाद्यर्थ गाथापतिगृहे निष्क्रमितुम् , प्रवेष्टुं कल्पते ॥ वर्षाकाले स्थितानां साधूनां मध्ये अष्टमभक्तकस्य-उपवासत्रयेण पारणाकर्तुः साधोस्त्रयो गोचरकालाः।
For Private and Personal Use Only