SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र २५७॥ कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. दाता गृहेऽविद्यमानं वस्तु साधुना याचितं सन् मौल्येनाऽऽनीय ददाति, मौल्येन न प्राप्यते चेत् तर्हि चौर्यमपि कुर्यात्, परं साधवे यथा तथा ददात्येव । तस्मात् पूर्वोक्तेषु कुलेषु अदृष्टं वस्तु न मार्गणीयम् । इयं सप्तमी समाचारी ॥७॥ अथाऽष्टमी समाचारी गोचरीगमनरूपा कथ्यतेवासावासं पज्जोसवियस्स निच्चभत्तियस्स भिक्खुस्स कप्पइ एगं गोअरकालं गाहावइकुलं भत्ताए वा, पाणाए वा निक्खमित्तए वा, पविसित्तए वा; नन्नत्थायरियवेयावच्चेण वा, एवं उवज्झायवेयावच्चेण वा, तवस्सिवेयावच्चेण वा, गिलाणवेयावच्चेण वा, खुड्डएण वा, खुड्डियाए वा, अवंजणजायएण वा ॥ २०॥ अर्थ:-वर्षाकाले स्थितानां साधु-साध्वीनां मध्ये यः कश्चिद नित्यभोजी साधुः सर्वदा एकाशने भुले, तस्य सूत्रार्थपौरुषीकरणादनन्तरं द्विपहरादनन्तरम् एकवारमेव गोचर्याः कालः कल्पते, गृहस्थस्य गृहे भक्तपानार्थ निष्कामति, प्रविशति च-एकवारं साधुर्याति, आयातीत्यर्थः । परमाऽऽचार्यादीनां वैयावृत्त्यकरात् साधोरन्यत्र अपरस्मिन् साधौ अयमुपदेशः, नतु आचार्यादीनां वैयावृत्त्यकृत्साधुरेकवारं गृहस्थस्य गृहे प्रविशति । य आचार्यस्य, उपाध्यायस्य, तथा तपखिनः साधोः, ग्लानस्य रोगिणः, वृद्धस्य वा । अथवा पुनरव्यञ्जनजातस्य ॥२५७॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy