________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समाचारी ॥ ६॥ अथ एवंविधे कुलेऽदृष्टं वस्तु न याचनीयम् इति स्वरूपां सप्तमी समाचारी वदति| वासावासं पजोसवियाणं अत्थि णं थेराणं तहप्पगाराई कुलाई कडाई, पत्तिआई, थिज्जाई, वेसासियाई, संमयाई, बहुमयाई, अणुमयाइं भवंति, जत्थ से नो कप्पइ अदक्खु वइत्तए
इमं वा” से किमाह?.भंते ! सड्डी गिही गिण्हइवा, तेणियं पि कुजा॥१९ अर्थः-वर्षाकाले स्थितानां साधु-साध्वीनां तथाप्रकाराणि कुलानि वर्तन्ते-गृहस्थानां गृहाणि सन्ति, कीदशानि गृहाणि कृतानि सन्ति? यानि गृहाणि स्थविरादिसाधुभिः श्रावकीकृतानि, धर्म शिक्षितानि, पुनः कीदृशानि ?-प्रत्ययवन्ति प्रीतियुक्तानि, पुनः कीदृशानि?-'थिजानि' स्थिराणि, पुनः कीदृशानि ?-विश्वसितानि-येषां गृहाणां साधूनामाहारलाभस्य विश्वासोऽस्ति । पुनः सम्मतानि-सर्वसाधूनां येषां गृहे प्रवेशोऽस्ति, सर्वेषु साधुषु धर्मरागं कुर्वन्तीत्यर्थः । पुनर्यानि गृहाण्यनुमतानि सन्ति, गृहाधिपतिना आज्ञां दत्त्वा रक्षितानि सन्ति । तस्य साधुर्यत्किञ्चिद् मार्गयेत् तद्दातव्यमित्यनुमतानि सन्ति । अथवा अणुमतानि अणुः शिष्योऽपि येषां मान्योऽस्ति, 'न च मुखं दृष्ट्वा तिलकं कुर्वन्ति' सर्वेषां साधूनां साधारणानि कुलानि सन्ति, तेषु कुलेषु अदृष्टं वस्तु याचितुं न कल्पते, कथम् अदृष्टं वस्तु साधुन याचते? तत्र हेतुमाह-'सड्डी श्रद्धावान् श्रावको
For Private and Personal Use Only