________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र ॥२५६।।
कल्पद्रुम कलिका वृचियुक्त. व्याख्या.
वयंतं परो वइजा-पडिगाहेह अज्जो !, पच्छा तुम भोक्खसि वा, पाहिसि वा एवं से कप्पइ पडिगाहित्तए, नो से कप्पइ गिलाणनीसाए पडिगाहित्तए ॥ १८ ॥
अर्थः-वर्षाकाले चतुर्मासीस्थितानां साधूनाम् , तथा साध्वीनां मध्ये कश्चिद्वैयावत्यकृत् साधुर्गुरु प्रति पृच्छति-स्वामिन् ! अद्य ग्लानस्य विकृत्या सह कार्यमस्ति? तदा गुरुर्वदति-ग्लानो विकृत्यर्थ पृष्टव्यः। तदा भो ग्लान ! तव कियत्प्रमाणया विकृत्या दुग्धाद्यया प्रयोजनं वर्त्तते ? इति पृष्ट्वा गुर्वाऽऽज्ञया स वैयावृत्त्यकृत् साधुर्यहस्थगृहे गृहस्थस्याऽग्रे विकृति ग्लानेन याचितां मार्गयति, तदा गृहस्थो ददाति । तस्य च ददतो यदा ग्लानोक्तप्रमाणा विकृतिर्भवेत्तदा पुनर्वैयावृत्त्यकृता साधुना वक्तव्यम्-'होउ अला हि' इतिशब्देन भवतु मया अलाभि, मया प्राप्तम्, अस्माकं सृतम् । अतः परं मा दातव्यम् । इत्युक्ते सति चेद् गृहस्थो वदेत्-हे साधो। भूयसी |विकृतिरस्माकं वर्तते, कथं स्तोका एव भवता गृह्यते? तदा स साधुर्वदेत्-ग्लान एतावतीमेव विकृति ग्रही-| ष्यति । इति श्रुत्वा गृहस्थः स्यात् कदाचित् तं वैयावृत्त्यकृतं पुनर्वदति-हे आर्य ! त्वमपि प्रतिगृहाण । ग्लानस्य आहाराद् अधिका उद्धरति सा त्वया गृहीतव्या, अथवा अन्यस्मै कस्मैचित् साधवे प्रदेया, इति गृहस्थस्याऽऽग्रहाद् वैयावृत्त्यकृत् साधुः पृथग्गृह्णाति, परं ग्लानस्य निश्रया न विकृत्यादिकं गृह्णीयाद् एषा षष्टी
॥२५६॥
For Private and Personal Use Only