SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं ॥२५४॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्थः- यत्र नदी नित्योदका-सर्वदा बहुजला, नित्यस्यन्दना, सदाऽविच्छिन्नप्रवाहा-निरन्तरा नदी वहति, तां नदीमुल्लङ्घय भिक्षार्थं गन्तुमा -ऽऽगन्तुं च सर्वतः सक्रोशं योजनंदन कल्पते साधूनाम् । यथा कुणालाया नगर्याः पार्श्वे ऐरावती नदी कोशद्वयविस्तारेण वहति, तामुल्लयाहारार्थं न गन्तव्यं । तदा कुत्र गन्तव्यमा - ऽऽगन्तव्यं ? तदाह-यत्र नद्यामेवं कर्त्तुं शक्नुयाद् एकं पादं जले कृत्वा, एकं पादं आकाशे, स्थले वा एवं कृत्वा या नदी उल्लङ्घयितुं शक्यते तदा अनया रीत्या जलमुल्लङ्घय सर्वतः सक्रोशं योजनं भिक्षायै गन्तुं प्रतिनिवर्त्तितुं च साधवे कल्पते । यदि नदीमेवम् उत्तरितुं न शक्नुयात् तदा सक्रोशं योजनं भिक्षार्थं गन्तुमा -ऽऽगन्तुं न कल्पते, पानीयं विलोडयन् साधुर्न गच्छेत्, जानुतः उपरिष्टाद् जलमुल्लङ्घय भिक्षार्थं साधुर्न गच्छेद् इत्यर्थः ॥ एषा तृतीया समाचारी ॥ ३ ॥ अथ साधूनां परस्परदानरूपां चतुर्थी समाचारीं वदति वासावासं पज्जोसवियाणं अत्थेगइयाणं एवं वृत्तपुत्रं भवइ - दावे भंते ! एवं से कप्पइ दावि - तर, नो से कप्पइ पडिगाहित्तए || १४ || वासावासं पज्जोसवियाणं अत्थेगइयाणं एवं बुतपुवं भवइ - पडिगाहि ते ! एवं से कप्पइ पडिगाहित्तए, नो से कप्पइ दावित्तए ॥ १५ ॥ वासावासं० दावे भंते! पडिगाहे भंते! एवं से कप्पइ दावित्तए वि, पडिगाहित्तए वि ॥ १६ ॥ For Private and Personal Use Only कल्पद्रुम कलिका वृचियुक्त. व्याख्या. ९ ॥२५४॥
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy