________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालस्य क्रमशः गणनपूर्वमभिहितत्वाद् अधिकमासोऽपि मध्ये गणितः । एवमनेकप्रकारेण शास्त्राक्षरैः तीर्थंकरगणधरादिभिरुक्तत्वेन अधिकमासः प्रामाण्यमापन्नः कथं केनाऽपि अगणनाः । स्वीकृतायां च तद्गणनायां पूर्वोक्तरीत्यैव पर्वाधिराज माराधनं श्रेयोवद्दमिति निर्विवादम् । किथ्य, सूर्योदयास्तपरिवर्तनेव सरलदिनगणनायां न बाधकोऽधिको मासः, तथा पर्युषणाया वर्षाकालविनमतिपद्यत्वेम पञ्चाशद्दिनगणनायामधिकस्यापि दिनानि गणनीयानि एव भवन्ति, न च वाच्यमधिकस्यात्र वर्षाकालदिनत्वं सम्प्रति नास्तीति भवद्भिरपि तस्य मासस्य जैनटिप्पणकाऽभावे लौकिक टिप्पणकानुसारेण दिनानां वर्षाकालत्वेन स्वीकाराद्, अन्यथा तस्मिन् मासे समागते तावत्सु दिनेषु विहारापत्तिः स्याद्, न च सेष्टा शास्त्रसंमता चेति बाधकाभावेन वर्तमानकाले मासवृद्धौ श्रीकल्पसिद्धान्तादिशास्त्रपाठानुसारेण पञ्चाशद्दिनैरेव - प्रथमभाद्रपदे द्वितीयश्रावणे वा वार्षिकपर्वाराधनं वरं, नाशीतिमिर्दिनैः, “सवीसइराए मासे" इत्यादि कल्पवचनप्रामाण्यात् । अत्र केचित् " दिनगणनायां तु अधिकमासः कालचूला इति विवक्षणाद् दिनानां पञ्चाशत् एव कुतोऽशीति वार्ताऽपि" एवं वदन्ति, तद् असत्यम् यतो निशीथचूर्णि - दशबैकालिकबृहद्वृत्ति - आचारांगवृहद्वृत्ति इत्यादिशास्त्रेषु अधिकमासस्य कालचूलाकथनेऽपि तद्दिनगणनं समर्थितमबाधापूर्वम्, ततो तस्य निषेधो न भवति । पुनः अत्र - केचद् "सत्तरिएहिं राईदिएहिं सेसेहिं" इत्यादि श्रीसमवायांगवचनानुसारेण श्रावण-भाद्रपद - आश्विनवृद्धौ अपि पर्युषणानन्तरं कार्त्तिकचतुर्मासीपर्यंत दिनानि सप्ततिं यावत् स्थातव्यम्" एवं वदन्ति, तद् न शालसम्मतम् । यतः पूर्वप्रदर्शितः पाठो जैनटिप्पणकानुसारेण अधिकमासाऽभावे चतुर्मासीप्रमाणस्य वर्षाकालस्य संबन्धिनं चन्द्रसंवत्सरं समवलम्ब्य समुक्तः, अत एव तत्र पाठे समधिकमास चर्चालवोऽपि नाऽऽवलोक्यते, यदि तत्र पाठे मासाधिक्यसद्भावे संवत्सरेऽभिवर्धिते कथं वर्तनीयम् ? इति सूचामात्रमपि स्यात् तदैव स पाठोऽत्र प्रस्तावे परिधार्येत, तथा तु तस्मिन् पाठे व समीक्ष्यते समीक्षा लक्ष्यदक्षैः,
For Private and Personal Use Only