SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं चा ॥२४७॥ कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. एकस्मिन् चन्द्रमासे अहोरात्रा एकोनत्रिंशद् भवन्ति, द्वात्रिंशश्च द्वाषष्टिभागस्य अहोरात्रस्य-२९।६२।३२। एतच अनन्तरं चोक्तम् , तत एष राशिस्त्रयोदशमिर्गुणितो जातानि त्रीणि अहोरात्रशतानि त्र्यशीत्यधिकानि, चतुश्चत्वारिंशश्च द्वाषष्टिभागा अहोरात्रस्य-३८३।१२।४४। एता|वदहोरात्रप्रमाणोऽमिवर्धितसंवत्सर उपजायते इत्यादि । तथा-प्रथमचन्द्रस्य संवत्सरस्य चतुर्विशतिः (२४)पर्वाणि प्रज्ञप्तानि, द्वादशमासात्मको हि चान्द्रः संवत्सरः, एकैकस्मिंश्च मासे द्वे द्वे पर्वणी, ततः सर्वसंख्यया चन्द्रसंवत्सरे चतुर्विंशतिः पर्वाणि भवन्ति, द्वितीयचंद्रसंवत्सरस्य चतुर्विंशतिः (२४) पर्वाणि, तृतीयाऽभिवर्धितसंवत्सरस्य पइविंशतिः (२६) पर्वाणि, तस्य त्रयोदशचंद्रमासात्मकत्वात् । चतुर्थस्य चन्द्रसंवत्सरस्य चतुर्विंशतिः (२४) पाणि, पञ्चमस्य अमिवर्धितसंवत्सरस्य षडूविंशतिः (२६) पर्वाणि, कारणमनन्तरमेवोक्तम् । तत एवमेवोक्तेनैव प्रकारेण 'सपुवावरेणं' त्ति पूर्वाऽपरगणितमिलनेन पञ्चसांवत्सरिके युगे चतुर्विशत्यधिक पर्वशतं (१२४) भवति इति आख्यातं सर्वैरपि तीर्थकृद्भिः, मया चेति" एवं चाधिकमासस्य गणना नाभिमता स्यात् तदा सर्वमप्यैतद् निष्फलप्राय प्रोक्तं भवेद् । प्रतिपादितं च वैशिष्ट्यं त्रयोदशचन्द्रमासात्मकत्वेनाभिवर्धितस्य । न च महात्मानो निष्फलं काकदन्तपरीक्षाप्रायं गणनाऽनई च पदमपि बुवते किं पुनरेतावन्तं वाक्यसमूह | कदाचिदपि ब्रवीरन ! । ततः साधूक्तम्-'अधिकमासोऽपि गणनीय' इति । किंच । "समयावली मुहूत्ता, दीहा पक्खाय मास बरिसाय । भणिओ पलिआसागर, उस्सप्पिणी सप्पिणी कालो ॥ १॥" इत्यादिनवतत्त्वप्रकरणगाथादिना विवरणेऽपि 'असंख्यसमयिका एकावलिः, एककोटि-सप्तषष्टिलक्ष-सप्तसप्ततिसहस्र-षोडशाधिकद्विशत (१६७७७ २१६) संख्येयावलिकं घटिकाद्वयरूपमेकं मुहूर्तम् , त्रिंशत्या | मुहूतैरेकोऽहोरात्रः, पञ्चदशभिरहोरात्रैरेकः पक्षः, पक्षद्वयेन मासः, द्वादशमिर्चन्द्रमासैश्च चतुर्विंशतिपर्वात्मकश्चन्द्रसंवत्सरः, त्रयोदशमिचन्द्रमासैः षडिशतिपक्षात्मक एकोभिवधितसंवत्सरः, चतुर्विशत्यधिकं शतं पञ्चवार्षिकयुगस्य पर्वाणि' इति समयादारभ्य सर्वस्याऽपि ॥२४७॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy