________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाद्रपद शुक्लपञ्चमीम् अतिक्रमितुम् । पूर्वमुत्सर्गनयः प्रोक्तः, 'अंतरा विय से' इत्यादिनाऽपवादनयः प्रोक्तः।। दशषु पञ्चकेषु कुर्वत्सु आषाढपूर्णिमादिवसे प्रथमं पञ्चकम् , एवमऽने पञ्चभिः पञ्चभिर्दिवसैरेकैकपर्व, एवं कुर्वतां साधूनां पंचाशद्दिनैरेकादश पर्वाणि भवन्ति, एतेषु एकादशपर्वदिनेषु पर्युषणा कर्त्तव्या । पर्वसु एकस्मिन् दिने न्यूनेऽपि कारणविशेषेण पर्युषणा कर्त्तव्या, परमेकादशभ्यः पर्वभ्यः उपर्यधिके एकस्मिन् अपि दिने गते न कर्त्तव्यं पर्युषणापर्व, उपरि दिनं नो लङ्घनीयमित्यर्थः । अधिकमासोऽपि गणनीयः, अधिक-2 मासाभावे तु सरलमासगणनया आषाढचतुर्मासात् पंचाशदिनैर्भाद्रपदशुक्लपञ्चमीदिने पर्युषणापर्व भवति । श्रीकालिकाचार्याणामादेशादू भाद्रपदशुक्लपंचमीतः चतुर्थ्यां क्रियते, भाद्रपदशुक्लपश्चमीरात्रीमुल्लङ्याऽग्रे षष्ट्यां पर्युषणा न कल्पते, अनादिसिद्धानां तीर्थकराणामाज्ञया । इदानीमपि चतुां पर्युषणां कुर्वन्तः साधवो गीतार्थाः, तीर्थकराऽऽज्ञाऽऽराधका ज्ञेया। इति । प्रथम साधुसमाचारी ॥१॥ | १ चन्द्रप्रज्ञप्ति-सूर्यप्रज्ञप्ति-समवायाङ्ग-जम्बूद्वीपप्रज्ञप्ति-भगवती-अनुयोगद्वार-निशीथभाष्य-चूर्णि-वृहत्कल्पभाष्य-चूर्णि-वृत्ति-पर्युषणाकल्पनियुक्ति-चूर्णि-वृत्ति आवश्यकनियुक्ति बृहद्वृत्ति-स्थानाङ्गसूत्रवृत्ति-दशवैकालिकनियुक्ति बृहद्वृत्ति-ज्योतिष्करण्डकपयन्नप्रभृति- . शाखेषु दिनगणनायामधिकमासस्य दिनानामपि गणनापथं प्रतिपादितत्वात् । तथाहि चन्द्रप्रज्ञप्तिसूत्रवृत्तौ यथा-"यस्मिन् संवत्सरे अधिकमाससंभवेन त्रयोदश चन्द्रस्य मासा भवन्ति, सोऽमिवर्धितसंवत्सरः । उक्तं च "तेरस चंदमासा वासो अमिवडिओ य नायबो"
For Private and Personal Use Only