________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गृहस्थानां पुरतो व्यक्तं वक्तव्यं साधुभिरस्माभिरत्र चतुर्मास्यां स्थितम् , वर्षाकालस्य चतुर्मास्यां स्थिता वयमिति साधुभिर्वाच्यम् । आषाढचतुर्मासप्रतिक्रमणानन्तरं पञ्चाशद्दिनः पर्युषणापर्व प्रतिक्राम्यमित्यर्थः । अत्र बहुवक्तव्यमस्ति तट्टीकान्तरादवसेयम् , ग्रन्थगौरवभयात्, सूत्राऽर्थव्याघाताच न लिखितमस्ति । अथ | पञ्चाशदिनैः पर्युषणापर्व विधेयम् , गृहस्थानां पुरतश्चातुर्मासी स्थितिबक्तव्या । तत्राधिकरणदोषप्रश्नोत्तरं बदन्ति । पूर्व शिष्यः पृच्छति-से केण' इति । भोः खामिन् ! हे पूज्य! सः कोऽर्थः? किं प्रयोजनं श्रमणो भगवान् । महावीरो वर्षाकालस्य पञ्चाशदिनेषु गच्छत्सु लोकसमक्षं वर्षावासनिमित्तं 'पजोसवेई' पर्युषणां करोति, आदावेवाऽऽषाढे एवं कथं न बदति? एतस्य शिष्यप्रश्नस्योपरि गुरुरुत्तरं वदतिजओ णं पाएणं अगारीणं अगाराइं कडियाई, उकंपियाई, छन्नाइं, लित्ताई, गुत्ताई, घटाई, मट्ठाई, संपधूमियाइं, खाओदगाई, खायनिद्धमणाई अप्पणो अट्टाए कडाइं परिभुत्ताई, परिणामियाइं भवंति; से तेणटेणं एवं बुच्चइ-समणे भगवं महावीरे वासाणं सवीसइराए मासे विकंते वासावासं पजोसवेइ ॥२॥ अर्थः हे शिष्य ! येन कारणेन प्रायो बाहुल्येनाऽगारिणां गृहस्थानामगाराणि गृहाणि गृहस्थैः वर्षाकाल-M
For Private and Personal Use Only