________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नप्रभसूरिः, येन उसियनगरे, कोरण्टनगरे च समकालं प्रतिष्ठा कृता । रूपद्वयकरणेन चमत्कारश्च दर्शितः ॥ एवं मानदेवसूरिः शान्तिस्तवकृत् ॥ एवं भक्तामरस्तोत्रकर्ता श्रीमानतुङ्गसूरिः ॥ एवं श्रीखरतरगच्छे नवाङ्गीवृत्तिकारकः श्रीस्तम्भनकपार्श्वप्रकटकः श्रीअभयदेवसूरिः॥ एवं श्रीतपगच्छे भाष्य-कमग्रन्थादिशास्त्रकारकः । श्रीदेवेन्द्रसूरिः॥ पुनरेवं वादिवेतालश्रीशान्तिसूरिः॥ पुनः एवं परकायप्रवेशकृत् श्रीजीवदेवमूरिः ॥ पुनरेवं कुमुदचन्द्रदिगम्बरजेता श्रीवादिदेवसरिः ॥ एवमनेके प्रभावकपुरुषाः श्रीजिनशासने जाताः सन्ति, तेऽपि स्थविरावलीप्रान्ते वाच्याः॥ तथा श्रीकालिकाचार्योऽपि स्थविरः, परं कालिकाचार्यास्त्रयो जाताः, तेषां विस्तरसंवन्धस्तु मत्कृतश्रीकालिकाचार्यकथातः पृथगेव ज्ञेयः । तथा यदि नव वाचना जायते । तदा स्थविरावल्या एकं व्याख्यानम् , वेला स्यात् तदा कालिकाचार्यकथाऽपि वाच्या ॥ अथ च यदि एकादश, त्रयोदश वाचना भवन्ति तदा एकं व्याख्यानं स्थविरावल्याः, द्वितीयं कालिकाचार्यकथा, सा मत्कृता अतिसरसा पृथगेवाऽस्ति ।
॥ इत्यनेनाऽष्टमवाचनायां श्रीस्थविरावली व्याख्याता ॥८॥ यत्र पर्वणि केचिद् जीवा अभयदानं ददति, केचिच्छीलं पालयन्ति, केचित्तपस्तपन्ति, केचिजीवभावनां भावयन्ति ॥
श्रीकल्पसूत्रवरनाममहागमस्य, गूढार्थभावसहितस्य गुणाऽऽकरस्य ॥ लक्ष्मीनिधेर्विहितवल्लभकामितस्य, व्याख्यानमष्टममिमं किल श्रेयसेऽस्तु ॥ ८॥ .
इति श्रीलक्ष्मीवल्लभगणिविरचितायां कल्पद्रुमकलिकायाम् अष्टमं व्याख्यानं समाप्तम् ॥ ८॥
For Private and Personal Use Only