________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
कल्पसूत्र
कलिका
२४२॥
विप्रो वादे जितः, तस्यैव शिष्यो जातः । सिद्धसेनेन श्रीविक्रमादित्यनामा राजा प्रतियोषितः । विक्रमादित्येन शत्रुञ्जययात्रा कृता । तस्य संघे १७० वर्णमया देवालया आसन् । पुनःश्रीसिद्धसेनसूरीणामुपदेशेन अन्येऽपि राजानस्तीर्थोद्धारं चक्रुः। श्रीसिद्धसेनसूरिसान्निध्याद् विक्रमादित्यो राजा संवत्सरं प्रवर्तयामास । पूर्व तु श्री- |वृत्तियुक्त. वीरसंवत्सरमासीत् । इति वृद्धवादि-सिद्धसेनसंबन्धः।
| व्याख्या. एवं श्रीहरिभद्रसूरिरपि महाप्रभावकः, तत्संबन्धो यथा-हरिभद्रनामा विप्रो व्याकरणादिशास्त्रपारगः सन् प्रतिज्ञा चक्रे । यस्य उक्तस्यार्थ अहं न वेद्मि तस्य शिष्यो भविष्यामि । एकदा सन्ध्यायां नगरमध्ये गच्छन् । साव्या गुण्यमानां गाथां शुश्राव-"चक्किदुग हरिपणगं । पणगं चक्कीण केसवो चक्की ॥ केसव-चक्की केसव । दुच्चक्कि-केसव-चक्की य" ॥१॥ श्रुत्वा च प्राह-भोः साध्वि! कोऽयं चिगचिगायमानः शब्दो जायमानोस्ति । साध्वी प्राह-"नवीने लिम्पिते चिगचिगाटो जायते” एतत् श्रुत्वा विप्रो दध्यौ-मया हारितम् , अर्थानवगमात्। कोऽर्थोऽस्या गाथायाः? साध्वी प्राह-अस्माभिः प्रायो गृहस्थस्याऽग्रे अर्थो न कथ्यते । अस्मद्गुरवः उद्याने सन्ति ते कथयिष्यन्ति। ततस्तत्र गत्वा, गाथार्थं श्रुत्वा, प्रतिज्ञापालनार्थ दीक्षा ललौ । जैनशास्त्राण्यपि भणित्वा सूरिपदं प्राप्तः । तस्य हरिभद्रसूरहस-परमहंसौ शिष्यौ बहुशास्त्रपारगामिनी अभूताम् । परशासनविद्यारहस्यन- ॥२४२॥ १. चक्रिद्विकं हरिपञ्चकम् । पञ्चकं चक्रिणां केशवश्चक्री ॥ केशव-चक्रिणौ केशवः द्विचक्रि-केशव-चक्री च ॥१॥
For Private and Personal Use Only