SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ऽज्ञानाद अपरद्वारेण गच्छन् गृहस्वामिना प्रोक्तम्-भोः! मुख्यद्वारेण एहि । स उवाच भोः! 'लक्ष्मीर्यत्र यत्र आयान्ती तत्र तत्र भव्या' को विचारस्तत्र । द्वात्रिंशद् मोदकान् भिक्षया लब्ध्वा आगतः । गुरुभिर्विचारितम्-द्वात्रिंशत् शिष्या अस्माकं भविष्यन्ति । प्रथमलाभवात् ते मोदकाःसाधूनां दत्ताः। पुनर्गखा परमानमानीय खयं बुभुजे । लब्धिसंपन्नत्वाद् गच्छाधारो जज्ञे । तस्य गच्छे त्रयः साधवः पुष्पमित्रा लब्धिसं-II पन्ना:-दुर्बलिकपुष्पमित्रः १, घृतपुष्पमित्रः २, वस्त्रपुष्पमित्रः ३, । चत्वारश्च महाप्राज्ञाः दुर्बलिकपुष्पमित्रः |१, पन्ध्यः २, फल्गुरक्षितः ३, गोष्ठामाहिलः ४ । अन्यदा इन्द्रेण श्रीसीमन्धरवचसा कालिकाचार्यवद् निगोदसूक्ष्मविचारपृच्छया परीक्षिताः, वन्दित्वा, स्तुतिं कृत्वा, शालाद्वारं परावृत्य गत इन्द्रः स्वस्थानम् ।। ततः श्रीआर्यरक्षितसूरिभिर्बुद्धिहीनान साधुन ज्ञात्वा अनुयोगश्चतुर्दाऽपि पृथक पृथग व्यवस्थापितः । एवंविधाः श्रीआर्यरक्षितसूरयः स्थविरा जाताः। एवं विद्याधरगच्छीयौ वृद्धवादि-सिद्धसेनौ । तयोः संबन्धलेशो यथा-एकः साधुर्वृद्धत्वेऽपि उच्चैः खरेण पठन् राज्ञा दृष्टः, प्रोक्तं च-त्वं किं मुशलं फुल्लयिष्यसि । ततस्तेन वाग्देवीमाराध्य, विद्यां प्राप्य चतुष्पथे| मुशलमूर्द्ध मण्डयित्वा राजसमक्षं फुल्लवितम् । काव्यं च प्राह-मद्गोशृङ्ग, शक्रयष्टिप्रमाणम् । शीतोवहिः, मारुतो निष्पकम्पः ॥ यो यद्रूते सर्वथा तन्न किञ्चित् । वृद्धो वादी कः किमाहात्र वादी॥१॥ तेन वृद्धवादिना सिद्धसेनो For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy