________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
॥२४१॥
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
दकं कृत्वा अनुज्ञा दत्ता । ततः फल्गुरक्षितसार्द्धं दशपुरे गतः, राज्ञा प्रवेशोत्सवः कृतः । मातृ-भगिन्यादीन् असारसंसारखरूपं दर्शयित्वा प्राव्राजयत् । स्नुषादिकं लज्जया प्रत्रजितम् । पिता तु पुत्राऽनुरागेण प्रब्रजितः, परं छत्रिकाम्, कमन्डलुम्, यज्ञोपवितम्, उपानहौ, धौतिकं च न मुञ्चति । ततो गुरुशिक्षिता बालादयो वदन्ति सर्वसाधून वयं वन्दामहे, परं छत्रिकावन्तं न । ततो वन्दनया वञ्चितः छत्रिकां मुमोच । एवं क्रमेण कमन्डलुम्, यज्ञोपवीतम्, उपानहौ च अमुञ्चत् । अन्यदा अनशनं कृत्वा कोऽपि साधुर्मृतः । गुरुशिक्षया वैयावृत्तिकरणार्थं साधुषु विवदमानेषु सोमदेवेन पृष्टम् -किमत्र महानिर्जरा वर्तते ? गुरुणा प्रोक्तम्-एवम् तर्हि अहं वहामि साधुम, गुरुणा प्रोक्तम्-उपसर्गसहने शक्तिर्भवति तदा वह, नोचेद् नहि । अन्यथा अनिष्टं भवति । ततस्तमुत्क्षिप्य मार्गे व्रजन गुरुशिक्षितैर्वालैधौतिकमपकृष्य चोलपट्टः परिधापितः पश्चात्स्थितेन स्नुषादिप्रव्रजितेन परिवारेण दृष्टो लज्जितः प्राह-अथ चोलपट्टपरिधापनेन किं ? यद् द्रष्टव्यं तद् दृष्टमिति । प्रोक्तं गुरुभिः चोलपट्टस्तिष्ठतु । ततो लज्जाया भिक्षार्थं न याति । ततो गुरुभिः साधूनां प्रोक्तम्- भवद्भिर्नानीय देया, स्वयं यास्यति । इत्युक्त्वा गुरवोऽन्यत्र विहृताः । साधुभिरानीय खयमाहारः कृतः, तस्मै न दत्तः । स तु क्षुषित एव तस्थौ । द्वितीयदिने गुरव आगताः 'किं न वृद्धस्य आहारो दत्तः' इति कृत्रिमः कोपः कृतः । साधुभिः प्रोक्तम्- स्वयं कथं न याति । ततो गुरवः स्वयं तदर्थं प्रचलिताः । ततोऽविनयं ज्ञात्वा स्वयमेव गतः कस्यापि इभ्यस्य गृहे । परम
For Private and Personal Use Only
कल्पद्रुम कलिका वृत्तियुक्तं.
व्याख्या.
८
॥२४१॥