SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥२४०|| | कल्पद्रुम कलिका वृचिबुकं. व्याख्या. महोत्सवेन गृहे पाआर्यरक्षितो विश्व इति तेषां मीन विवृत्त गाथाः, तत्र गद्यार्थः पुनः पयैः संगृहीत इति पौनरुक्तं न भावनीयम् । गाथाश्च सुगमा एव अतोन विवृत्ताः, तथा अत्र स्थविरावलीमध्ये श्रीआर्यरक्षितादयो नोक्ताः, परंतेऽपि स्थविरा इव इति तेषां संबन्धो लिख्यतेदशपुरे नगरे सोमदेवः पुरोहितः, रुद्रसोमा भार्या; तयोः पुत्र आर्यरक्षितो विदेशे गत्वा चतुर्दश विद्याः पठित्वा आगतः, राज्ञा हस्तिस्कन्धे समारोप्य महामहोत्सवेन गृहे प्रापितः। मातुश्चरणौ ननाम, परं माता न तादृशी हर्षिता। कथं न हर्षिता ? इति पृष्टा पाह-अहं तु. परमार्हता श्राविका, त्वया तु नरकपातकारिण्यो विद्या भणिताः किं ताभिः ? यदि मां मन्यसे, सुबद्धिश्च तदा दृष्टिवादं पठ। ततस्तं भणितुमिच्छन् दृष्टीनां दर्शनानां वादो विचारणा-'दृष्टिवादः' इति । नामाऽपि शोभनमस्य इति ध्यायन , रात्रौ मातरं पृष्ट्वा तत्पठनाय चलितः। काश्यपगोत्रं । धर्ममपि च काश्यपं वन्दे ॥ ८॥ तं वन्दित्वा शिरसा । स्थिरसत्त्व-चरित्र-ज्ञानसंपन्नम् ॥ स्थविरं चाऽऽर्यजम्बु । गौतमगोत्रं नमस्यामि ॥ ९ ॥ मृदुमार्दवसंपन्नं । उपयुक्तं ज्ञान-दर्शन-चरित्रेषु ॥ स्थविरं च नन्दितपितरं । काश्यपगोत्रं प्रणमामि ॥ १०॥ ततश्च स्थिरचारित्रं । उत्तमसम्यक्त्वसत्त्वसंयुक्तम् ॥ देशिगणिक्षमाश्रमणं । माडरगोत्रं नमस्यामि ॥ ११॥ ततोऽनुयोगधरं । धीरं मतिसागरं महासत्त्वम् ॥ स्थिरगुपक्षमाश्रमणं । वत्ससगोत्रं प्रणमामि ॥ १२ ॥ ततश्च ज्ञान-दर्शन-चरित्र-तपस्सुस्थितं गुणमहान्तम् ॥ स्थविरं कुमारधर्म । वन्दे गणिं गुणोपेतम् ॥ १३ ॥ सूत्रा-ऽर्थरत्नभृतं । क्षम-दम-मार्दवगुणैः संपन्नम् ॥ देवर्धिक्षमाश्रमणं । काश्यपगोत्रं प्रणमामि ॥ १४ ॥ ॥२४०॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy