________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ततो रोहगुप्त उत्थितः, अहं वादं करिष्यामि । ततो गुरुणा तदीयविद्याप्रजैतृविद्या मयूरी, नकुली, बिडाली, व्याधी, सिंही, उलूकी, होलावलीप्रमुखा दत्ताः। पुनः प्रोक्तम्-अन्यविद्याप्रयुञ्जने इदं मया अभिमत्रितं रजोहरणं भ्राम्यम्, त्वमजेयो भविष्यसि । ततो रोहगुप्तेन बलश्रीनामराजसभायां तेन वादिना समं वादः कृतः, परं न जीयते स्म । वादिना जीवाऽजीवौ स्थापितो, ततो गुप्तेन दवरकावर्तदानेन भूमौ क्षित्वा चलाऽचलो दर्शितः। प्रोक्तम्-जीवा-जीव-नोजीवश्च । एवं राशिवयं स्थापयित्वा तं निर्जित्य जयं लब्ध्वा महामहोत्सवेन गुरुसमीपे गतः । गुरुणा प्रोक्तम्-त्वया वादी जितः, श्रीजिनशासनस्य उद्दीपना च कृता तचारु, परं नोजीवो नास्ति संघसमक्षं मिथ्यादुष्कृतं देहि । स चाभिमानी न ददाति, उवाच-नोजीवोऽप्यस्ति, कथं मिथ्यादुष्कृतं ददामि ? ततो गुरुणा समं षण्मासान् वादः कृतः, ततः कुत्रिकापणे गत्वा जीवा-ऽजीवनोजीवमार्गणे जीवा-ज्जीवी देवेन दत्तौ, नोजीवो न दत्तः, असत्त्वात् । तथा चतुश्चत्वारिंशताऽधिकशतेन (१४४) पृच्छाभिर्जितो गुरुणा, कोपेन भस्ममल्लकं मस्तके भक्त्वा गच्छाहिष्कृतः । सोऽपि त्रैराशिकमतं प्रवर्तयति स्म । कथं ? (कया रीत्या ?) नवविधं द्रव्यम् ९, सप्तदशविधा गुणाः १७, पञ्चविधं कर्म ५, त्रिविध सामान्यम् ३, एकविधो विशेषः १, एकविधः समवायः १, (३६) ततो जीवाऽ-जीव-नोजीव-नोऽजीवभेदैश्चतुर्गुणिताः जाताः १४४ प्रश्नभेदाः। नामव्युत्पत्तिरपि इयम्-षट्पदार्थप्ररूपकत्वात् षट्, गोत्रेण उलूकत्वाद्
For Private and Personal Use Only