SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साधुभिलॊकमुखात् श्रुतम् अहो! गुरूणां देशना अमृतश्राविणी, परं न तादृशं रूपम् । गुरुभिः साधुमुखात् श्रुत्वा सहस्रदलवर्णकमलोपरि स्थित्वा स्वाभाविकदिव्यरूपेण धर्मोपदेशो दत्तः। सर्वेऽपि लोका विस्मयं प्राप्ताः। पुनरपि यो धनश्रेष्टिपुत्रीं रुक्मिणी साध्वीभ्यः पूर्व प्रमुगुणश्रवणेन जातानुरागां, पित्रापि धनकोटिसहिता| दीयमानां प्रतियोध्य प्रावाजयत् (पुनर्येन वज्रवामिना पदानुसारिलब्ध्या श्रीआचाराङ्गमहापरिज्ञाध्ययनात् मानुषोत्तरपर्वतं यावद्गमनविषया सा आकाशगामिनी विद्या उद्धृता) पुनर्योऽन्यदा उत्तरस्यां दिशि दुर्भिक्षे जाते श्रीसई पट्टे संस्थाप्य पानीयग्रहणार्थं गतं शय्यातरमपि लोचकरणेन साधर्मिकोऽहं भवतामिति वदन्तं पट्टे आरोग्य आकाशे स्थित एव स्थाने स्थाने मार्गे चैत्यानि वन्दमानो महानसी पुरीं प्रापयामास । तत्र तु सुभिक्षम् , परं बौद्धो राजा । श्रीपयूषणापर्वणि समागते चौद्धश्रावकप्रेरितेन राज्ञा जिनचैत्येषु पुष्पाणि निषि-IN द्धानि।सङ्घन वज्रस्वामी विज्ञप्तः। ततः खाम्याह-मा चिन्ता क्रियताम् , इत्युक्त्वा आकाशे उत्पत्य माहेश्वरीपुर्या हुताशननामदेवस्य बने पितृ-मातृमित्रमारामिकं तडितनामानं पुष्पमेलनाय सावधानी कृत्य हिमवद्भिरौ प्राप्तः। तत्र श्रीदेव्या वन्दितः । तदानीं यद् देवपूजार्थं पूर्व लक्षदलकमलमानीतमासीत्तदेव तया दत्तम् । तद्गृहीत्वा पुनः पश्चागुलमानेन हुताशनवनादपि विंशतिलक्षपुष्पाणि लात्वा आकाशे विमानमारूढः । प्राक्तनमित्रजृम्भकदेवकृतगीतगानचादित्रादिमहोत्सवः आगत्य पुष्पविंशतिलक्षाणि श्राद्धानां दत्त्वा जिनचैत्येषु महिमानम् । For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy