SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्र ॥२२७॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भग्नो वादः । अष्टवर्षान्ते गृहीता दीक्षा, पश्चात् मात्रापि दीक्षा गृहीता । पुनर्यस्य पूर्वभवमित्रैर्जुम्भकदेवैर्महादव्याम् उज्जयिनीमार्गे वृष्टौ निष्टत्सायां कूष्माण्डभिक्षायां गृहस्थरूपैर्दीयमानायाम् अनिमिषत्वादिना देवपिण्डोयमिति निश्चित्य भिक्षाया अग्रहणे तुष्टेन वैक्रियलब्धिर्दत्ता । पुनर्यस्य ग्रीष्मकाले घृतपूरैः परीक्षां कृत्वा आकाशगामिनी विद्या दत्ता । पुनरन्यदा वज्रमुनिर्गुरुषु बहिर्भूमौ गतेषु, साधुषु च विहर्तुं गतेषु साधुसंस्तारिकचेष्टिका एकीकृत्य स्वयं विचाले स्थित्वा शिष्याणामिव एकादशानामङ्गानां पृथक् पृथग वाचनां दातुमारेभे । गुरुभिर्द्वारे आगस्य, स्थित्वा च सर्वं श्रुतम् । ततः साधूनां तस्यातिशयज्ञापनार्थम् अन्यदा ग्रामान्तरं गच्छद्भिः गुरुभिः प्रोक्तं भोः शिष्याः ! भवतां वाचनाचार्यो वज्रोऽस्ति इत्युक्त्वा चलिताः । पञ्चाद्वज्रेण तेषां विनीतानां तथा वाचना दत्ता यथा अनेकवाचनाभिः पठ्यते तथा एकैकया वाचनया पठितम्। साधुभिर्विचारितं यदि गुरवः कियन्तं कालं विलम्बन्ते तदा वरम्, यथास्माकं शीघ्रं श्रुतस्कन्धः पूर्णो भवति । ततः आगतैर्गुरुभिः पृष्टम् - भोः ! भवतां वाचना सुखेन जाता । तैः प्रोक्तम्- अतः परमस्माकं वाचनाचार्यो वज्र एव भवतु । पञ्चाद्गुरुणा स्वयमपि वज्राय १९ एकादशाङ्गचाचना दत्ता । ततो वज्रखामिना दशपुराद् उज्जयिन्यां गत्वा गुर्वाऽऽज्ञया श्रीभद्रगुप्ताचार्यसमीपे दश पूर्वाणि अघीतानि । तत आचार्यपदे स्थापितो गतः पाटलीपुरे । रूपेण लोकानां मनःक्षोभो मा भवतु, इति व्याख्याने रूपं संक्षिप्य सामान्यं कृत्वा राजादीनामग्रे देशना दत्ता । द्वितीयदिने For Private and Personal Use Only कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. ८ ॥२२७॥
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy