________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं ॥२२६॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनधर्मरतान् अकरोत् । पुनर्यो वस्त्र - पात्र - धान्य- दुग्ध-घृतादिकं प्रासुकद्रव्यविक्रयं कुर्वन्ति तेषां संप्रतिभूपेन ज्ञापितम् भोः ! साधूनामग्रे सर्व ढौकनीयम्, यच ते साधवो ठान्ति तत्तेभ्यो देयमेव, भवतां च तन्मूल्यं लाभसहितं मम कोष्ठागारिकः प्रच्छन्नं दास्यति; तैस्तथा कृतम्, साधुभिरपि अशुद्धमपि शुद्धबुद्ध्या गृहीतम् । संप्रतिभूपः श्री आर्यसुहस्तिसूरिप्रतिबोधित एवंविधो बभूव । एवंविधाः श्री आर्यसुहस्तिसूरयश्चारित्रं प्रति - पाल्य वर्ग जग्मुः ९ ॥ श्री आर्य सुहस्तिस्रैद्रों शिष्यौ-कोटिक - काकन्दकनामानौ । किंविशिष्टौ सुस्थिती, सुविहितक्रियानिष्ठौ । पुनः किं विशिष्टौ सुप्रतिबुद्धौ सुज्ञाततत्त्वी । अन्ये तु आचार्या एवमाहुः-सुस्थितसुप्रतिबुद्धनामानी किं विशिष्टौ ? कोट्यंशसूरिमन्रजापपरिज्ञानादिना कौटिकी, पुनः किं विशिष्टौ काकन्यां नगर्यां जातत्वात्काकन्दुकौ इति विरुदप्रायं विशेषणद्वयम् ११ । कौटिक - काकन्दकयोर्व्याघ्रापत्यगोत्रयोः शिष्य इन्द्रदिन्नः कौशिकगोत्रीयः १२ । इन्द्रदिन्नस्य शिष्यो गौतमगोत्रीयो दिन्ननामा जातः १३ । दिन्नस्य शिष्यः कौशिकगोत्रीय आर्यसिंहगिरिर्जातिस्मरो जातः १४ । श्रीसिंहगिरेः शिष्यो गौतमगोत्रीयः श्रीवज्रखामी १५ । श्रीवज्रखामिशिष्य उत्कौशिक गोत्रीयः श्रीवज्रसेनो जातः १६ । वज्रसेनस्य चत्वारः शिष्याः स्थविरा जाता:नागिल: १, पोमिलः २, जयन्तः ३, तापसः ४ । एतेभ्यश्चतुर्भ्यः चतस्रः शाखाः खखनाम्ना निर्गता:- नागिला १, पोमिला २, जयन्ती ३, तापसी ४ इति २० ॥ अत्र श्रीसिंहगिरि - श्री वज्रखामि - श्री वज्रसेनसूरीणां संलग्नः
For Private and Personal Use Only
कल्पद्रुम कलिका
वृत्तियुक्तं.
व्याख्या.
८
॥२२६॥