________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं ॥२२५॥
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
"
पार्श्वे गमिष्यामि । ततः श्रीसङ्घ कायोत्सर्गे स्थिते शासनदेव्या आगत्य सीमन्धरखामिसमीपे नीता । तन्मुखाच्चूलाद्वयं लात्वा अत्रागता । ततस्ता गुरून् वन्दित्वा स्वस्थाने गताः । अन्यदा श्रीस्थूलभद्रः पूर्वमित्रब्राह्मणगृहे गतोऽभूत् पृष्टम्-क मे मित्रम् ? भार्यया प्रोक्तम् - दरिद्रत्वेन भिक्षार्थं जगाम । स्थूलभद्रेण ज्ञानेन ज्ञातम् - अहो अस्य गृहस्थामुकस्थाने निधानं वर्त्तते, परं न जानाति । ततो निधानस्थानं दृशा दर्शयित्वा निर्गतः । मित्रेणागत्य भार्यावचनेन तत्स्थानं खनितं, महानिधानं प्रकटितम् स ब्राह्मणः सुखी जातः । ततः सिंहविकुर्वणम्, निधानदर्शनं च अपराधं ज्ञात्वा वाचनाग्रहणाय आगतस्य स्थूलभद्रस्य प्रोक्तम्-त्वम् अयोग्योऽसि, नातः परं | वाचनादानम् । तथापि श्रीसङ्घाग्रहेण 'अन्यस्मै त्वया न देया' इति शपथं कारयित्वा अग्रतः सूत्रतो वाचना दत्ता, परं नार्थतः । एवंविधः श्रीस्थूलभद्रो वीरात् पञ्चदशाधिकद्विशतवर्षे (२१५) स्वर्गं गतः ७ । तथा जम्बूस्वामी चरमकेवली ।१। प्रभवखामी १, शय्यंभवसूरिः २, यशोभद्रसूरिः ३, संभूतिविजयः ४, भद्रबाहुः ५, स्थूलभद्रः ६, एते षडपि श्रुतकेवलिनः । ७ । श्रीस्थूलभद्रस्य द्वौ शिष्यो- आर्यमहागिरिः एलावत्यगोत्रीयः १, | द्वितीयः आर्यसुहस्ती वासिष्ठगोत्रीयः २ । तत्रार्यमहागिरिणा व्यवच्छिन्नेऽपि जिनकल्पे जिनकल्पतुलना कृता, पुनर्यस्य आर्यमहागिरेः गोचर्यां भ्रमतः श्रेष्ठिगृहे स्थितः श्रीआर्यसुहस्तिसूरिः संस्तवनं कृतवान् ८ । अथ श्री आर्यमुहस्तिसूरिसम्बन्धो यथा - अन्यदा दुष्काले जाते धान्यं न लभ्यते, लोको दुःखी जातः, राजा
For Private and Personal Use Only
कल्पद्रुम कलिका वृत्तियुक्तं.
व्याख्या.
८
॥२२५॥