________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न दुक्करं सिक्खियनच्चियाए ॥ तं दुक्करं तं च महाणुभावो, जसो मुणी पमयवणम्मि बुज्झो॥१॥" ततो रथकारो व्रतं जगृहे । अन्यदा द्वादशवर्षदुर्भिक्षप्रान्ते पाटलीपुरे अगुणनादिना विस्मृतामेकादशाङ्गी ज्ञात्वा, सङ्घन मिलित्वा दृष्टिवादपठनाय श्रीभद्रबाहुखामिसमाहूतिकृते मुनिद्वयं मुक्तं तत्र गतम् , परं भद्रबाहुस्वामी प्राहमया सांप्रतं महाप्राणायामध्यानं प्रारब्धं ततोऽनागमनं भावीति मुनिद्वयं पश्चात् प्रहितम् । पुनः सङ्घन कथापितम्-सङ्घादेशं यो न मन्यते तस्य को दण्डः ? भद्रबाहुखामिना प्रोक्तम्-गच्छाहहिष्क्रियते, परमागमने ध्यानभङ्गो भवति। ततः श्रीसङ्घः शिष्यान् अत्र प्राहिणोतु यथा पाठयामि। ततः स्थूलभद्रादि ५०० शिष्याः प्रहिताः। गुरुभिर्वाचनासप्तके दत्तेऽन्ये उद्भग्नाः । स्थूलभद्रस्तु दशपूर्वाणि वस्तुद्वयन ऊनानि पपाठ । अन्यदा यक्षाद्याः सतापि साध्व्यः स्थूलभद्रभगिन्यो बान्धववन्दनार्थं समागताः।गुरुं वन्दित्वा ताः प्रोचुःस्थूलभद्रः कास्ति? गुरुणा प्रोक्तम्-गिरिगुहायां पूर्वाणि गुणयन्नस्ति । ततो गतास्तत्र ताः, आयातीात्वा ज्ञानबलेन स्थूलभद्रश्चमत्कारदर्शनाय सिंहरूपं पुच्छाच्छोटं कुर्वन्तं कृत्वा स्थितः। ताः सिंहं दृष्ट्वा भीता गुरुपाद्ये गत्वा प्रोचुः-तत्रास्माकं भ्राता| नास्ति, सिंहः स्थितोऽस्ति । तदा गुरुभिातम्-विद्यावलं प्रयुक्तम् । पुनर्पोक्तम्-पुनर्यात भ्राता तत्रैवास्ति । पुनस्तास्तत्र गत्वा, भ्रातरं दृष्ट्वा, हर्षेण वंदन्ते स्म । पुनर्गुरुसमीपे आगत्य प्रोचु:-अस्माभिः सह सिरीयः प्रवजितोऽभूत्, तंश्रीपर्युषणापर्वणि मया उपवासं कारितः, खर्ग गतः। ततोऽहं तत्प्रायश्चित्तयाचनाय श्रीसीमंधरवामि
For Private and Personal Use Only