________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं ॥२२४॥
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
इति जल्पन्ति दर्दुरा रटन्ति । स्वयं चित्रशालायां स्थितः, षद्भिरपि रसैः सदा भोजनं कुरुते, कोशा रागवती षोडशशृङ्गारान् रचयित्वा सखीभिः सह नृत्यं कुर्वन्ती, कामोद्दीपकसरागवचनानि वदन्ती नाटकमकरोत् । परं महापुरुषो रोममात्रं न क्षुब्धः प्रत्युतो धर्मोपदेशदानेन कोशावेश्यां श्राविकामकरोत् । चातुर्मासीपारणे चत्वारोऽपि साधवो गुरुसमीपे गतास्तदा त्रिषु आगतेषु गुरुणा किञ्चिदुत्थाय - स्वागतं भो दुष्करकारकाः ! इत्यु|क्तम् । स्थूलभद्रे आगते गुरुणा उत्थाय खागतं दुष्कर- दुष्करकारकं ! इत्युक्तम् । ततस्तेषु यः सिंहगुहावासी साधुः सोऽमर्षेण आगामिचातुर्मास्यां स्पर्धया गुरुवारितोऽपि कोशागृहे गतः, तां रूपवतीं दृष्ट्वा क्षुब्धः । वेश्यया प्रोक्तम्- धनमानय । तेनोक्तम्-तत् कुत्रास्ति ? कोशया प्रोक्तम्- नेपालदेशे राजा याचकानां सपादलक्षं रत्नकम्बलं ददाति । तदानीं हि ततस्तेन वर्षाकालेऽपि गत्वा राजपार्श्वद्रलकम्बलं प्राप्याऽऽनीय वेश्याया | दत्तम् । तथा च स्नानं कृत्वा अङ्गप्रोञ्छनं कृत्वा तत्प्रबोधार्थं खालमध्ये प्रक्षिप्तम् ॥ साधुराह-अहो ! त्वया अज्ञानेन किं कृतं मया कष्टेनानीतम् अमूल्यं रत्नकम्बलं खालमध्ये क्षिप्तम् ? कोशा प्राह-रे मूर्ख ! त्वया किं कृतम्, चारित्रं दुर्लभं उभयलोकसाधकं रत्नकम्बलादपि अनन्तमूल्यं मम अङ्गेषु मलाविलेषु अशुचिषु निक्षिप्तम् । ततः प्रतिबुद्धो गुरुसमीपे आगत्य मिथ्यादुष्कृतं ददौ, एवं स्वकामिनं रथकारं पुङ्खपुङ्खापितैर्वाणदूरस्थाया आम्र| लुम्ब्या आनयनकलागर्वितं सर्षपराशिस्थ सूच्यग्र पुष्पोपरि नृत्यन्ती कोशा प्राह - "न दुक्करं अंबयलंबितोडणं,
For Private and Personal Use Only
कल्पद्रुम कलिका
वृचियुक्तं. व्याख्या.
८
॥२२४॥