________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
पश्चाशत्पलमानस्तुलितो भविष्यति ४ । भद्रबाहुविशेषज्ञाननिमित्तमपि राज्ञा श्रुतम्, ततः पञ्चमे दिने मेघवृष्टिोता परं सर्व श्रीभद्रबाहुखामिवचनं सत्यं जातम् । वराहमिहिरः सत्याऽसत्यवादी लोकमध्ये जातः, भद्रबाहुस्वामी तु सत्यवादी जातः । पुनरेकदा राज्ञः पुत्रो जातः, वराहमिहिरेण वर्षशतायुर्वर्तनेन | जन्मपत्रिका लिखिता । ततः सर्वेऽपि लोकाः अक्षतभाजनानि लात्वा वर्धापनाय राज्ञो गृहे समेताः,IN एवं दर्शनिलोका अपि आशीर्मदानाय समेता विना भद्रबाहुम् । ततो वराहमिहिरेण राज्ञोऽग्रे प्रोक्तम्हे राजन् ! भवदीयपुत्रजन्म भद्रबाहोर्न रुचितं तेन नागतः । एतत्खरूपं श्रावकैः भद्रबाहुस्वामिनः प्रोक्तम् । |गुरुभिः प्रोक्तम्-वारं वारं कथं गम्यते, एकवारं यास्यामि । कथमेवम् ? गुरुणाप्रोक्तम्-अष्टमे दिने रात्री बिला
डीतो मरणं राजपुत्रस्य भावी इति । राज्ञापि एतद्वाक्यं श्रुत्वा बिलाडिकाऽप्रवेशनादौ यत्नशतं कृतम् , कारितं | |च । ततोऽष्टमे दिने दैवयोगाद् दासीहस्तादर्गला पतिता बालकोपरि, मृतो बालकः । वराहोऽवदत्-बिलाडि-IN कातो न मृतः, गुरुणा अर्गलायां बिलाडिकारूपं दर्शितम् , ततो वराहो लज्जितः । ततो वराहोऽन्यत्र गत्वा मृत्वा व्यन्तरो भूत्वा जैनानां मरकोपद्रवं करोति स्म । ततः श्रावकाणाम् उपद्रवनिवारणाय महाप्रभावमयम् "उवसग्गहरं" स्तोत्रं कृत्वा अर्पितम् । तत्सङ्घन सर्वत्र गृहे पठितम्, तत्प्रभावेण व्यन्तरो नष्ट्वा गतः, जातं सर्वत्र शुभम् , महाप्रभावं स्तोत्रम् । गौरपि कदाचित् कथञ्चिदुग्धं न दत्ते तदापि लोका इदं स्तोत्रं गुणयन्ति,
For Private and Personal Use Only