________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
॥२२२॥
पुनर्लोकानामग्रे एवं कथयति स्म-भो लोका! मया एकदा नगराहिलग्नं मण्डितमासीत् परं विस्मृत्या लग्नं न कल्पद्रुम भग्नम् , गृहागतेन विचारितम् अहो!! मम ज्ञानस्य विराधना जाता, ततस्तं लग्नभङ्गं कर्तुं पुनरहं तत्र स्थाने कलिका गतः, लग्नस्योपरि तस्याधिष्ठायकं सिंह पुच्छाच्छोटं कुर्वन्तम् अपश्यम् , तथापि लग्नभक्त्या साहसं कृत्वा लग्नो
वृचियुक्त. परि हस्तक्षेपे कृते सिंहः सूर्यो भूत्वाप्राह-भोवराहमिहिर! वरं वृणु, तदा मया प्रोक्तम्-नक्षत्रादीनाम् आचारं
व्याख्या. साक्षाद्दर्शय । ततस्तेन अहं सूर्यादीनां यत्र मण्डलानि तत्र नीतः, सर्व सर्वेषां ग्रहाणां चारो-दया-ऽस्तमनवक्रातिचारखरूपं दर्शितः । ततोऽहं सर्व ज्योतिष्कबलेन अतीता-नागत-वर्तमानखरूपं जानामि, इति कथ-II यन् राजादीनां चमत्कारदर्शनेन मनांसि रञ्जयामास । तस्मिन्नगरे भद्रबाहुस्वामी समागतः, श्रावकैः प्रवेशोत्सवकरणादिना महिती महिमा कृता, परं वराहमिहिरो न सहति, तेषां माहात्म्यपातं वाञ्छति । ततो राज-IN सभायां गत्वा राजाऽग्रे प्रोक्तम्-इतः पञ्चमे दिने पूर्वतो मेघः समेष्यति १, तृतीयप्रहरप्रान्ते २, पुरो लिखित-13 कुण्डलिकायाः मध्ये ३, द्विपञ्चाशत्पलमितो मत्स्यः पतिष्यति ४ इति निमित्तं भाषितं श्रुत्वा श्रावकैः भद्रबाहुस्वामिने प्रोक्तम् । गुरुणा प्रोक्तम्-किश्चित्सत्यम्, किञ्चिद् असत्यम् । कथम् ? ततो गुरुणा प्रोक्तम्-मेघोर
॥२२२॥ न पूर्वतः समेष्यति, किन्तु ईशानकोणतः १ तृतीयप्रहरप्रान्ते न, किन्तु दिनघटीष शेषे सति २ कुण्डलिकाया मध्ये न, किन्तु किश्चिद्वहिः ३ । द्विपञ्चाशत्पलमानो न, किन्तु वायुना भक्षितत्वात् साधैंक
For Private and Personal Use Only