________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
॥२२०॥
सौख्यं प्राप्य, अन्याऽऽगमननिरोधाय मुक्तः कपाटं दत्तवान् इति जम्बूसंवन्धः २॥ श्रीजम्बूस्वामिना श्रीप्रभवः कल्पद्रुम सूरिपदे स्थापितः । अथ श्रीप्रभवखामिना गच्छमध्ये, सङ्घमध्ये च उपयोगो दत्तः कस्य सूरिपदं दीयते? गच्छे ।
कलिका पट्टयोग्यं साधुमदृष्ट्वा परतीर्थे राजगृहे यज्ञं कुर्वन् शय्यंभवभहो दृष्टः, ततः श्रीप्रभवसूरिणा साधुद्वयं शिष्य-|
वृत्तियुक्त.
व्याख्या. यित्वा मुक्तम् । तेन तत्र गत्वा प्रोक्तम्-अहो कष्टम् ! अहो कष्टं!! तत्त्वं न ज्ञायते । तदा शय्यंभवभद्देन श्रुतम्, ततस्तत्त्वज्ञानपृच्छार्थ गुरुपाचे गत्वा पृष्टो गुरुः खड्गम् उत्पाव्य तत्त्वं वद ? गुरुणा विचारितं शिरच्छेदे तत्वं वक्तव्यं, न दोषः। भोः! यज्ञकीलस्याधोभागे श्रीशान्तिनाथप्रतिमा शान्तिकारी वर्तते, तेन शान्तिजायते । ततो जातजैनधर्मरुचिर्गुरुपावें गत्वा धर्म श्रुत्वा दीक्षां जग्राह शय्यंभवभः । अथ श्रीप्रभवस्वामी गृहवासे वर्षाणि त्रिंशत् ३०, छद्मस्थावस्थायां च पञ्चपञ्चाशद्वर्षाणि ५५, सर्वमायुः पञ्चाशीतिवर्षाणि ८५ पालयित्वा श्रीशय्यंभवं स्वस्य पट्टे स्थापयित्वा वर्ग जगाम । इति प्रभवस्वामिसंबन्धः ३॥ अथ श्रीप्रभवस्वामिना श्रीशय्यंभवः सूरिपदे स्थापितः । पश्चात् सगर्भा शय्यंभवेन भार्या मुक्ताभूत् तया पुत्रो जनितः, तस्य मनक इति नाम दत्तम् । स लेखकशालायां पठन् केलिकरणाय गतः, बालैः 'निष्पितृकः' इति प्रोक्तम्। ततो दुःखं कृत्वा मातृपाचे आगत्य ॥२२०॥ पितृनामपृष्टम् , तया प्रोक्तम्-शय्यंभवः । तेनोक्तं कुत्रास्ति ? मात्रा दीक्षाखरूपं प्रोक्तम् , ततो गतस्तन्नगरे, गुरोर्बहिर्गतस्य एकान्ते मिलितोमनकः। पृष्टं मनकेन-अत्र शय्यंभवसूरिः श्रूयते स कुत्रास्ति ? गुरुणा प्रोक्तम्
For Private and Personal Use Only