________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsun Gyanmar
www.kobatirth.org
कल्पसूत्र ॥२१९॥
तुझियायनगोत्रीयो श्रीयशोभद्रः॥अथ एतेषां पञ्चानां स्थविराणांसंबन्धा अनुक्रमेण एवं ज्ञेयाः, तथाहि-अथ।
कल्पद्रुम श्रीवीरपट्टे सुधर्मखामी, तस्य संबन्धोऽयम् , तथाहि-कुल्लागसन्निवेशे धम्मिल्लनामा ब्राह्मणः, तस्य भार्या|
कलिका
वृत्तियुक्तं. भद्दिला, तयोः पुत्रः सुधर्मा चतुर्दश (१४) विद्यानिधानः, पञ्चाशद्वर्षान्ते ५० बीरसमीपे दीक्षा । त्रिंशद्वर्षाणि
व्याख्या. ३० यावद्वीरचरणकमलसेवा । द्वादश वर्षाणि १२ वीरमोक्षात् छद्मस्थावस्थायां स्थितः । अष्टौ वर्षाणि ८ केवलपर्यायः, एवं वर्षशतं (१००) सर्वम् आयुः प्रपाल्य श्रीजम्बूस्वामिनं खकीयपढे स्थापयित्वा मोक्षं गतः१॥ जम्बूवामिचरित्रमिदम्-एकदा श्रीमहावीरदेवस्य समवसरणे अनेकदेव-चतुरग्रदेवीसहितः, महातेजःपुञ्जविराजमानो विद्युन्माली देवो वीरं वन्दितुं समागतः । तदा श्रेणिकन पृष्टम्-हे खामिन् ! अस्य देवस्य एतादृशी विस्मयकारिणी अधिका कान्तिः कथम् ? ततः स्वामिना प्रोक्तम्-हे श्रेणिक ! अनेन देवेन पूर्वभवे महाविदेहक्षेत्रे राजकुमारण शिवेन वैराग्यं प्राप्य द्वादश वर्षाणि महत्तपः कृतम् । तथाहि-उपवासद्वयं कृत्वा पारणे आचाम्लम् , एवं द्वादश वर्षाणि निरन्तरं तपः कृतम् । तस्य प्रभावेन पश्चमे ब्रह्मदेवलोके तिर्यगजृम्भको देवो महर्द्धिकोऽभूत् । अथायं देवः सप्तमे दिने देवलोकतथ्युत्वाराजगृहनगरे ऋषभदत्तः श्रेष्ठी, धारिणी भार्या, तयोः
॥२१९॥ पुत्र उत्पत्स्यते। ततस्तथैवोत्पन्नः, जन्मोत्सवः कृतः । गर्भस्थेऽस्मिन् मात्रा जम्बूवृक्षो दृष्टः, ततो 'जम्बूकुमारः इति नाम दत्तम् , क्रमाद्यौवनावस्थां प्राप्तः, परं श्रीसुधर्मस्वामिपाचे धर्म श्रुत्वा वैराग्यवान् जातः । मातृपितृ
For Private and Personal Use Only