________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
मारणाय आगच्छतो मार्गे बाहुबलेश्चेतसि विचारः समुत्पन्न:-मदीयोऽयं जेष्ठो भ्राता राज्यसुखार्थ किं हन्यते ? |धिग् राज्यं, यदर्थ एतदकार्य क्रियते एवं विचार्य, मदीया मुष्टिरपि विफलत्वं न याति इति विचार्य मस्तके मुष्टिना लोचं विधाय केवलज्ञानं मम उत्पत्स्यते तदाऽतः स्थानात कायोत्सर्ग पारयित्वा श्रीऋषभदेवस्य समवसरणे गमिप्यामीत्यऽभिग्रहं बाहुबलिश्चकार । अथ च तदा भरतोऽपि आगत्य पादयोलगित्वा खापराधं क्षामयन् इन्द्रादिभिः प्रतियोधितो याहूबलेः सुताय पादयोनामयित्वा, पितृराज्यं च तस्मै दत्त्वा स्वगृहमाजगाम । अथ च बाहु-| बलिमुनेः कायोत्सर्गे स्थितस्य एक वर्ष बभूव । तदा श्रीऋषभदेवेन आसन्नकेवलज्ञानं दृष्ट्वा तत्पाधै तत्प्रति-IN बोधनाय ब्रामी-सुन्दयौं साध्व्यौ भगन्यौ प्रेषिते । तेऽपि तत्रागत्य मधुरखरेण-"वीरा तुम्हे गज थकी उत्तरो |गज चढ्यां केवल न होइ रे” इति ध्वनि चक्रतुः । तं गीतध्वनिं च श्रुत्वा बाहुबलिः वृक्षलता-तृणादिवेष्टितशरीरः, पक्षिभिः स्मश्रु-कूर्च-कर्णादिषु कृतनीडो मनसि चिन्तयति स्म-अहो! मम भगन्योाह्मीसुन्दयोः साध्व्योः गीतध्वनिः, मया तु गजास्त्यक्ताः, इमे चैवं वदतः गजादुत्तीर्यताम् । तदा ज्ञायते सत्यम् अहं मान-1 गजारूढोऽस्मि । जानामि-प्रथमं गृहीतदीक्षाणां भरतपौत्राणां कथं पादयोः लगामि, इति मम मनसि वृथाऽभिमानः। 'धर्मऽभिमानो विनयघातकरः, ततः इति विचार्य पादौ उत्पाटयतः, वल्लीतृणान् बोटयतः, मानस्य बलं| मोटयत एव केवलज्ञानं बाहुबलेरुत्पन्नम् । तदा श्रीबाहुबलिः केवली समवसरणे केवलिपर्षदि समाजगाम ।
For Private and Personal Use Only