________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
॥२१२॥
कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या.
ज्ञात्वा रुष्टो दूतम् अपमान्य निर्भय निष्काशयामास । दूतश्च भीतः सन् जीवग्राहं नश्यन् भरताय सर्व | निवेदितवान् । तदा भरतः सर्वं सैन्यं संमील्य बाहूबलेरुपरि यात्रायै चचाल । बाहूबलिरपि तदागमनं विज्ञाय खसैन्यं संमील्य सेनानीं पुत्रं सोमयशसं कृत्वा स्वदेशसीमाशिरसि संस्थितः । भरतश्च स्वपुत्रं सूर्ययशसं सेनान्यं चकार । अनयोः महान् सङ्ग्रामोऽभूत् , द्वादशवर्ष यावत्, तत्सङ्ग्रामाद् बहवो देशा उद्वसिताः । तत् | खरूपं ज्ञात्वा च इन्द्रस्समागत्य उभयो भ्रात्रोरग्रे कलिं निवारणाय न्याययुद्धस्य उपदेशं ददौ । तदा पञ्च युद्धानि स्थापितानि-प्रथमं दृग्युद्ध, द्वितीयं वाग्युद्धं, तृतीयं बाहुयुद्ध, चतुर्थदण्डयुद्धम् , पञ्चमं मुष्टियुद्धम् , एतानि पञ्च युद्धानि कल्पितानि । उभयोरपि सैन्यं पृथक पृथक समतायां स्थितम् , इन्द्रादयो देवा अपि साक्षिणः स्थितास्सन्ति । तत्र प्रथमे दृग्युद्धे भरतो हारितः। द्वितीये वाग्युद्धेऽपि पुनर्भरतो हारितः। तृतीये बाहुमोटनयुद्धेऽपि भरत एव हारितः । चतुर्थे दण्डयुद्धे भरतो हारितः। अथ पञ्चमे मुष्टियुद्धे भरतेन बाहूबलिशिरसि मुष्टिप्रहारो दत्तः, तदा बाहवलिराजा जानुप्रमाणं पृथव्यां गतः। पुनर्बलान्निमृत्य यदा मुष्टिम् उत्पाव्य बाइबलिः भरतस्य हननाय धावितस्तदा भीतो भरतश्चक्रं मुमोच । चक्रं तु खगोत्रे न प्रभवति । अतो बाहूबलिमालिङ्गय भरतस्य हस्ते जगाम।तदा भरतो मनसि अतीवदूनो बाहूबलिं रुष्टम् आगच्छन्तं दृष्ट्वा किमयं नवीनश्चक्रवर्ती मदीयां सर्वा ऋद्धिं | गृहीष्यति? इति यावत् चिन्तयति, देवा अपि बाहूबलेरेव सर्वेषु युद्धेषु जयमुद्घोषयन्ति । तावदेव मुष्टिं दृढां बद्धां
॥२१॥
For Private and Personal Use Only