________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
पष्टिवादीक्षा जगह ला महामात्या लवा ऋषभखामिजालिनो बभूवुः अजित.
पूजार्थम् अष्टौ दिनानि यावद् महोत्सवं कृत्वा चक्ररत्नमाराधयामास । ततश्चक्ररत्नं चचाल । तस्य पश्चात् सर्व सैन्यं संमील्य षट् खण्डानि साधयामास । दिग्विजये षष्टिवर्षसहस्राणि लग्नानि । ततः पश्चाद् गृहे समागतस्तदा सुन्दरीम् आचाम्लतपः षष्टिवर्षसहस्राणि कृत्वा सञातां दुर्घलशरीरां दृष्ट्वा, दीक्षायै कृतनिश्चयां ज्ञात्वा दीक्षायै अनुमति ददौ । तया खाम्यग्रे दीक्षा जगृहे । तदा आयुधशालायां चक्ररत्नं न प्रविवेश । महामात्यान पप्रच्छ-आयुधशालायां कथं चक्ररत्नं न प्रविशति ? तदा महामात्या ऊचुः-भ्रातरो न त्वया वशीकृताः । तद्वचसा अष्टानवतिभ्रातृन दूतान् खसेवायै प्रेषयामास । ते च सर्वे मिलित्वा ऋषभखामिनम् अष्टापदे समवसृतं प्रष्टुं गताः, तदा भगवता वैतालीयाध्ययनं श्राव्य प्रतिबोध्य दीक्षिताः । ते च सर्वे केवलिनो बभूवुः । तत्सर्व || भरतेन श्रुतं तथापि चक्ररत्नम् आयुधशालायाम् अपविश्यमानं दृष्ट्वा । मन्त्रिवचनाद् एकं बाहूबलिं अजितं विज्ञाय मनसि शुशोचे-यावद् बाहूबलिने जितस्तावत् षट्खण्डसाधनमपि निष्फलमेवेति ज्ञात्वा सुवेगनामानं दूतवरं बाहूबलेराकारणाय लेखं दत्वा भरतः तक्षशिलायां प्रेषितवान् । सोऽपि तदीये देशे ब्रजन मुदमुदितलोकान् बाहूबले रागिणः, बनेऽपि क्षेत्ररक्षाकारिणस्त्रीजनान् मधुरखराहूबलेगीतगुणान् गायतः, भरतस्य नाममात्रमपि अजानन् दृष्ट्वा विस्मयं प्राप । अनुक्रमेण तक्षशिलायां बाहूबलेस्सभायां सुवेगो दूतः समागत्य | प्रणतिं विधाय बाहुबलये लेखं ददौ । बाहूबलिरपि भरतस्य कुशलपृच्छापूर्वक लेख वाचयित्वा वकीयाऽऽह्वानं
For Private and Personal Use Only