________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समुत्पन्नं । तदा उभयोः केवलज्ञान-चक्रयोः समकाल एव द्वाभ्यां पुरुषाभ्यां भरतभूपस्य वर्दापनिका प्रदत्ता, |भरतेन च उभौ सन्तुष्टिदानेन विसर्जितौ । ततश्च भरतेन चिन्तितम्-प्रथम कस्य महोत्सवं करोमि इति क्षणं विमृश्य ताते पूजिते, चक्रपूजनम् इति निश्चित्य, 'धर्मार्थे सकलं त्यजेत्' इति विचार्य मरुदेव्याः समीपे आगत्य वदति-हे मातः ! त्वं मां सदा एव उपालम्भं ददाना आसरः। मत्पुत्रस्य यूयं शुद्धिमपि न गृहीथ । अद्य तव पुत्रस्य महिमानं दर्शयामि । त्वत्पुत्रः समागतोऽस्ति इत्युक्त्वा गजोपरि श्रीमरुदेवीम् आरोहयित्वा पश्चात् , खयमारुह्य महताऽऽडम्बरेण समवसरणाय आनयाञ्चक्रे । मार्गे आगच्छन्ती मरुदेवी कर्णाभ्यां देवदुन्दुभिध्वनि श्रुत्वा भरतं पप्रच्छ-कोऽयं ध्वनिः, कुत्र श्रूयते? तदा भरत उवाच-भो मातः! तव पुत्रस्याऽग्रे अयं वादित्राणां ध्वनिर्भवति । तथापि मरुदेवी न मनुते स्म । ततश्चाग्रे आगच्छन्ती देव-देवीनां महान्तं कोलाहलं शुश्राव।।
पुनर्भरतं पप्रच्छ-कोऽयं कोलाहलः ? तदा भरतः पुनरपि उवाच-तव पुत्रस्य सेवार्थ देवाः, देव्यश्च आयान्ति, Nयान्ति च तेषां कोलाहलोऽयं भवति । एतदपि वाक्यं न मनुते स्म।तदा पुनरपि भरतो वदति-हे मातः! चेत्तव
पुत्रस्य गृहं स्वर्ण-रूप्य-रत्नमयं त्वं विलोकयेः तदा त्वमपि जानीयाः । तत्स्वरूपं तु मया वर्णयितुं न शक्यते इति श्रुत्वा सत्यं मन्यमाना, हर्षाश्रुसहिता नेत्रे हस्तेन मर्दयन्ती, निष्पटला जाता सती साक्षात् सर्व समवसरणस्वरूपं तीर्थंकरस्य सर्व महिमानं ददर्श । दृष्ट्वा चिन्तितम्-अहो मोहविकलं जीवं धिक् ! सर्वेऽपि जीवाः
For Private and Personal Use Only