SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्णयोरङ्गुली क्षित्वा 'बाबा आदम' इत्युच्चैः खरेण पुत्कृति चक्रे । पश्चाद् यत्र भगवान् कायोत्सर्ग स्थित आसीत् । तत्र रत्नमयपीठे पादुके अकारयत् । अथ श्रीऋषभदेवस्य दीक्षाग्रहणाद् अनन्तरं माता मरुदेवी भरतं प्रति नित्यं उपालंभयति । अहो भरत ! म्लानां पुष्पमालामिव मां त्यक्त्वा गतः ऋषभः, सर्वा ऋद्धिं| त्यक्त्वा एकाकी वनवासी सञ्जातः, क्षुधया तृषया पीडितो भविष्यति । कचित् स्मशान-गिरिगुहादौ तिष्ठन् । शीत-वात-वर्षा-तप-दंश-मशकादिभिः पीड्यमानो भविष्यति, अहं च दुर्मरा पुत्रं दुःखिनं श्रुत्वा न म्रिये। मत्तुल्या पृथिव्यां न काचिद् दुःखभागिनी वर्त्तते, अहो भरत ! त्वं राज्यसुखे लुब्धस्तिष्ठसि, मत्पुत्रस्य कदापि शुद्धिं न गृह्णासि, सर्वे भ्रातरो यूयं सरसवत्या आहारं नित्यं कुरुथ, मत्पुत्रो गृहे गृहे नीरसां भिक्षा मार्गयति । यूयं पदृकूलवस्त्राणि परिधत्थ, मत्पुत्रो नग्नस्तिष्ठति । यूयं हंसतृलशय्यायां शयानाचामरीज्यमानाः सुखरगीतध्वनि शृण्वन्तो रजनीं गमयथ मत्पुत्रश्च विषमोन्नतभूमौ दर्भादरुपरि शयानः, कायोत्सर्गादौ स्थितो वा कुत्रचिद् वनकुनादौ वातेन पीड्यमानः कर्णयोर्मशकश्रेणीनां भणत्कृति शृण्वानो रात्रिं निर्गमयन भविष्यति। मदीयपुत्र ऋषभो यादृशो दुःखी वर्तते तादृग् दुःखी अपरः कोऽपि नास्ति । कर्हिचिद् इयं सर्वा ऋद्धिः मदीयपुत्रस्यैवाऽऽसीत् । सैवेयं ऋद्धिः भवद्भिः सर्वैः भातृभिरेकत्रीभूय मत्पुत्रस्य राज्यं उद्दाल्य गृहीतमस्ति ।। मत्पुत्रो देशाद् बहिनिष्कासितोऽस्ति । कदापि तत् शुद्धिमपि न गृहीष्यथ इति नित्यं भरतमुपालंभ्य अश्रु For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy