________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिष्टां मिष्टां वार्ता ब्रवीषि । नीच ! त्वमेव भिक्षा याचयख । एवम् उभयोर्महान् वादः सञ्जायते ॥ वर्षदिवसे || आहारो मिलितस्तदा च उभयोर्हस्तयोर्विवादमण्डितं दृष्ट्वा भगवता उभयोः कलह निवार्य-भो वाम ! त्वया |
शुभकर्म उत्पाद्यते, दक्षिणेन दानादि दत्त्वा सफलीक्रियते संयोगसिद्धिः । एकाकी कदापि न भव्यः । Nउभाभ्यां मेलापं कृत्वा कार्य कर्तव्यम् इति भगवद्वचः श्रुत्वा एकीभूती, भगवता इक्षुरसविहरणाय प्रसारितौला
तदा कविर्वदति-श्रेयांससदृशं चित्तं, श्रीऋषभसदृशं पात्रम् , इक्षुरससदृशं वित्तं, पुण्येन एव तत्रयं प्राप्यते।। श्रेयांसेन इक्षुरसेन भगवान् संतोषितः । भगवता करपात्रेण पारणं कृतम् । अत्र च कश्चित् वक्ष्यति-भगवतः कराद् इक्षुरसपतनाद् अयतना न भवति ? तत्र उत्तरम्माइज घडसहस्सं, अहवा माइज सायरा सब्वे । एयारसलद्वीओ, सा पाणिपडिग्गही भवयं ॥१॥
अर्थ:-सहस्रं घटा हस्तयोर्मायान्ति । अथवा सर्वे सागरा मायान्ति । इयं पाणिपात्रिकलब्धिरस्ति । 'श्रीआवश्यके भगवद्धस्ते एकाशताऽष्टघटकस्य दानं दत्तं श्रेयांसेन एवं उक्तमस्ति' अथ च तहानात् किं फलम-1 भूत् । देवैरहो दानम् अहो दानम् इति उद्घोषणा कृता, आकाशे देवदुन्दुभयो वाद्यन्ते स्म, चतुर्निकायदेवाः | मिलिता; सार्धं द्वादशकोटिः खर्णिकानां ववर्ष, श्रेयांसकुमारस्य गृहं धनेन भृतम् , यशसा भृतम्, भगवान् रसेन संतुष्टः; श्रेयांसेन पात्रदानादु मोक्षफलमुपार्जितम् । यत्र च भगवतः पारणमभूत् तत्र रत्नमयं चत्वरं
For Private and Personal Use Only