SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir अथ द्वितीयं व्याख्यानम् । वंदामि भद्दवाहुं पाईणं चरमसयलसुअनाणिं । सुत्तस्स कारगं इसिं दसाणुकप्पे य ववहारे ॥ अर्हद्भगवच्छ्रीमन्महावीरस्य शासने अतुलमङ्गलमालाप्रकाशने श्रीपर्युषणापर्वराजाधिराजसमागमने श्रीकल्पसिद्धान्तवाचना क्रियते । तत्र त्रयोऽधिकाराः प्रवर्तन्ते । प्रथमेऽधिकारे श्रीजिनचरितम्, तदनन्तरं स्थविरकल्पः, तदनन्तरं साधुसमाचारी, कल्पः कथ्यते । तत्र श्रीजिनचरिताधिकारे पश्चानुपूर्व्या श्रीमहावीरदेवस्य षटू कल्याणकानि व्याख्यातानि । अथ द्वितीयवाचनायां विस्तरभावेन श्रीमहावीरदेवस्यैव श्रीसंघस्य माङ्गलिक्यार्थं कल्याणकषट्कं व्याख्यायते । णं काले णं, ते णं समए णं समणे भगवं महावीरे जे से गिम्हाणं चउत्थे मासे, अट्टमे पक्खे, आसाढसुद्धे, तस्स णं आसाढसुद्धस्स छट्टीदिवसे णं महाविजयपुप्फोत्तरपवरपुंडरी१. नमः श्रीवर्द्धमानाय श्रीमते च सुधर्मणे सर्वानुयोगवृद्धेभ्यो वाण्यै सर्वविदस्तथा ॥ १ ॥ २. वन्दे भद्रबाहुं प्राचीनं चरमसकलश्रुतज्ञानिनम् । सूत्रस्य कारकम् - ऋषिं दशानुकल्पे च व्यवहारे ॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy