SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं ॥ १८ ॥ www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir इति व्याख्येयम् । अथ तच्छब्दस्य पूर्वपरामर्शित्वाद् अत्र किं परामृश्यते इति चेत् ? उच्यते -यौ काल - समयौ भगवता श्री ऋषभदेवस्खामिना, अन्यैश्च तीर्थंकरैः श्रीवर्धमानस्य षण्णां च्यवनादीनां कल्याणकानां हेतुत्वेन कथितौ तौ एव इति ब्रूमः श्रमणस्तपस्वी, समत्रैश्वर्ययुक्तो भगवान् महावीरः कर्मशत्रुविजयाद् अन्वर्थनामा चरमजिनः ! 'पंचहत्युत्तरे' ति हस्तस्येव उत्तरस्यां दिशि वर्तमानत्वाद् हस्तोत्तरा, हस्त उत्तरो यासां ता हस्तोत्तरा उत्तराफाल्गुन्यः । बहुवचनं बहुकल्याणकाऽपेक्षम्, पञ्चसु - च्यवन - गर्भापहार- जन्म - दीक्षा- ज्ञानकल्याणकेषु हस्तोत्तरा यस्य सा तथा व्यवनादीनि पञ्च उत्तराफाल्गुनीषु जातानि । निवार्णस्तु स्वातौ संजातत्वाद् इति भावः । 'होत्य'त्ति अभवन् ।। एवं वीरचरित्राऽधिकारे, सूत्रनिर्युक्ति - चूर्णि - वृत्ति-प्रकरणादिषु बहुषु शास्त्रेषु तीर्थकर - गणधर पूर्वाचार्यैः श्रीवीरस्य षट्कल्याणकानि प्रतिपादितानि सन्ति परमत्र विस्तरभयात् स्वस्थलीयपाठो नैवोद्धृतः । ततश्च प्रिययुक्ति - शास्त्रैः सर्वैरपि श्रीवीरस्य कल्याणकपटूमेव समाराध्यम् । एतद्विषये विशेषरूपेण सविस्तरो निर्णयः अस्मत्कृतेन 'पर्युषणानिर्णय' प्रन्थेन समवसेयो निपुणैः - मणिसागरः. श्रीकल्पसूत्रवरनाममहागमस्य गूढार्थभावसहितस्य गुणाकरस्य । लक्ष्मीनिधेर्विहितवल्लभकामितस्य व्याख्यानमाद्यमगमत् परिपूर्तिभावम् ॥ १ ॥ इति उपाध्यायश्रीलक्ष्मीवल्लभविरचितायां श्रीकल्पसूत्रकल्पद्रुमकलिकायां प्रथमं व्याख्यानं समाप्तम् ॥ १ एकादशवाचनाऽपेक्षयान प्रथमं व्याख्यानं संपूर्णम् इति केचिद् वदन्ति. For Private and Personal Use Only कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. १ ॥ १८ ॥
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy