SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir करतया च जात इति षष्ठः । उक्तभवग्रहणं हि विना नान्यद्भवग्रहणं षष्ठं श्रूयते भगवत इति ॥ | देवानन्दाकुक्षेः त्रिशलाकुक्षौ अवतरणं भवद्वयं विवक्षितम् , अत एव श्रीवीरस्य च्यवनद्वय संसिद्धम् , तथा तीर्थकरावतरणसमये त्रिशनालया चतुर्दशमहास्वप्ना दृष्टाः तथैव आश्विनकृष्णत्रयोदश्याम् इन्द्रस्य आसनप्रकम्पः, अवधिनावलोकनं शक्रस्तवेन च नमस्कारकरणम् । |तथा त्रिशलागृहे इन्द्राऽऽगमनं, चतुर्दश स्वप्नफलं तव पुत्रस्तीर्थकरो भविष्यति इति कथनम्। एतद् आगमानुसारेण युक्त्यनुसारेण च वीरस्य गर्भसंक्रमणरूपं द्वितीयच्यवनकल्याणकं प्राज्ञैः ज्ञेयम् ॥ । तथाहि श्रीवटगच्छीयश्रीविनयचन्द्रसूरिकृत-श्रीकल्पसूत्रनिरुक्ती षट्कल्याणकसंसाधकः पाठो यथा--'तेणं कालेणं' इत्यादि तेणं ति प्राकृतशैलीवशात् तस्मिन् काले, तस्मिन् समये; यः पूर्वतीर्थकरैः श्रीवीरस्य च्यवनादि हेतुतिः, कथितश्च; यस्मिन् समये तीर्थकरच्यवनं स एव समय उच्यते, समयः कालनिर्धारणार्थः, यतः कालो वर्णोऽपि, तथा हस्त उत्तरो यास ता हस्तोत्तरा उत्तराफाल्गुन्यः बहुवचनं बहुकल्याणकाऽपेक्षम् , तस्यां विभोश्च्यवनम् , गर्भाद् गर्ने संक्रान्तिः, जन्म, व्रतम् केवलं चाऽभवत् ; निर्वृतिः स्वातौ । इति ॥ | पुनरपि श्रीतपगच्छीयश्रीकुलमण्डनसूरिकृता श्रीकल्पसूत्राऽवचूरिका यथा-वर्तमानतीर्थाऽधिपतित्वेन आसन्नोपकारित्वात् प्रथम श्रीवर्धमा नखामिनश्चरितम् ऊचुः श्रीभद्रबाहुस्वामिपादाः-'तेणं कालेणं' इत्यादि, 'तेणं' ति प्राकृतशैलीवशात् तस्मिन् काले-वर्तमाना-ऽवसला पिण्याश्चतुर्था-ऽरकलक्षणे, एवं तस्मिन् समये-तद्विशेषे, यत्र असौ भगवान् देवानन्दायाः कुक्षौ दशमदेवलोकगतपुष्पोत्तरविमानादू अवतीर्णः, 'ण' शब्दो वाक्याऽलंकारे, अथवा सप्तम्यर्थे, आर्षत्वात् तृतीया, एवं हेतौ वा; ततस्तेन कालेन, तेन च समयेन हेतुभूतेन For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy