SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र कल्पद्रुम कलिका ॥१७॥ वृत्तियुक्तं. व्याख्या. ल्याणकावरोधिनी इति विदुषां विदितमेव । विशेषव्याख्यारूपग्रन्थेषु, विशेषतादर्शकमूलपाठेषु वा कल्याणकषटुं नामग्राहमेव संनिदर्शितम् , ततश्च 'सामान्यशास्त्रतो नूनं विशेषो बलवान् भवेत् , इत्यादिभिर्लोकशास्त्रतर्कशास्त्रप्रसिद्धन्यायैः पूर्वोक्तसामान्यव्याख्यातो विशेषव्याख्यैव बलीयसी, ततश्च श्रीवीरस्य कल्याणकषटुमेव इति वनपाषाणरेखा । यच्चोच्यते कैश्चित् 'यदस्ति आश्चर्यभूतं लोक-शास्त्रव्यवहारातीतं तन्न | कल्याणकम् । अयं च श्रीवीरगर्भापहारोऽपि आश्चर्यरूप:-लोकातीतः, शास्त्रातीतश्च, ततः स कथं कल्याणकरूपः? इति । तदेतत् सर्वम| समीक्षिताभिधानम् । यदि परैरेवं नियम्यते 'यदस्ति आश्चर्यरूपं तन्न कल्याणकम् तदा तु पराभिमतः । श्रीमल्लिजिन सकलवृत्तान्त एव आश्चर्यरूपः, ततस्तस्य जन्मादीनि कल्याणकतया कथं कक्षीकरणीयानि परैः । तथाहि-सर्वेषां श्वेतवाससामयं सिद्धान्तः-तीर्थकरः पुरुष| रूपेणैव स्यात् , नतु स्त्रीरूपेण । परं च प्राकर्मबलात् श्रीमल्लिजिनः स्त्रीरूपेण जातः, स च सर्वैरपि आश्चर्यरूपः स्वीक्रियते, सत्यपि एवं | यथा तदीयजन्मप्रभृति कल्याणकतया स्वीक्रियते, एवं श्रीवीरोऽपि प्राकर्मबलाद् एव गर्भाद् गर्भान्तरे संचारितः, तच तस्य संचारणमाश्चयभूतमपि श्रीमल्लिजिनवत् कल्याणकत्वेन स्वीकरणीयमेव, तदस्वीकारे च श्रीमल्लिजन्मप्रभृत्यपि न कल्याणकत्वेन कलनीयम्, उभयत्र युक्तिबलस्य तुल्यत्वात् । शास्त्रकारैस्तु श्रीमल्लिजिन-श्रीवीरजिनयोः यद् आश्चर्यभूतं तदपि श्रीआदीश्वर अष्टोत्तरशतमुनिमिः सार्द्ध मोक्षगमन आश्चर्यवत् कल्याणकत्वेन नामग्राहं न्यरूपि, युक्तिरपि एवमेव साधयति । पुनरपि श्रीसमवायांगसूत्रवृत्तौ ब्राह्मणकुण्डग्रामे ऋषभदत्तब्राह्मणस्य भार्याया देवानन्दायाः कुक्षौ उत्पन्न इति पञ्चमो भवः । ततो यशीतितमे दिवसे क्षत्रियकुण्डग्रामनगरे सिद्धार्थमहाराजस्य त्रिशलाभिधानभार्यायाः कुक्षौ इन्द्रवचनकारिणा हरिणैगमेपिनाम्ना देवेन संहतो नीतस्तीर्थ ॥१७॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy