________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काचिद् युक्तिः प्रतन्यते-शब्दव्युत्पत्त्या कल्याणकं नाम माङ्गल्यसूचकः क्रियाविशेषः, तथा च श्रीवीरगर्भापहारः कल्याणकम् , अक| ल्याणकं वा? यदि अकल्याणकं तदा अनुभवबाधः, शास्त्रबाधा च। तथाहिः-नहि नाम काऽपि, कदापि कस्मिन् अपि अकल्याणके जाते माङ्गल्यं संजायते, अकल्याणकस्य अमङ्गलफलत्वात् । अत्र तु श्रीवीरगर्भापहारे यद् जातं मङ्गलजातं तत् सर्व प्राचीन श्लोकैरेव अस्माभिः संनिर्दिष्टम् । ततो मङ्गलफले श्रीवीरगर्भापहारे अकल्याणकताया गन्धलवोऽपि नायाति । बलादपि तस्य अकल्याणकतास्वीकारे पूर्वोक्तशास्त्रा पलापप्रसङ्गः । नातः केनापि कयाऽपि युक्त्या श्रीवीरगर्भापहारे कल्याणकाभावता संनिवेशयितुं शक्या । यदि च स कल्याणकरूपः तर्हि कथमायासः कार्यते, चिरं जीवन्तु भवन्तः तं कल्याणकत्वेन कक्षीकुर्वाणाः । अत्र केचिद् एवं निरूपयन्ति यद् यथा केषुचित् शास्त्रेषु कल्याणकषटुनिर्देशः संदर्यते, तथैव पञ्चाशकसूत्रवृत्ती कल्याणकपञ्चकत्वमपि प्रपञ्चितम् । तदत्र किं कर्तव्यम् , किश्चात्र समाधानम् । उच्यते, शास्त्ररचनाप्रकारो द्विधा सामान्यरूपः, विशेषरूपश्च । ततश्च यानि शास्त्राणि सामान्यरूपेण रचितानि तत्र विशेषविषये तब्या-1 | ख्यानकारेण औदासीन्यमेव संश्रितम् , नातो हि एवं ज्ञातुं शक्यं येन विशेषाभावः स्यात् । लोकेऽपि एवमेव व्यवहारः-यथा वने अनेकपादपसद्भावेऽपि येषां पादपानामाधिक्यम् , तेनैव तद् वनं व्यवह्रियते यथा च आम्रवणम् , तेन तद्गतनिम्ब-जम्बीर-ताल-तमाल-हिन्ता-IN लादिवृक्षाणाम् अभावो ज्ञातुम्, विधातुं न शक्यः । तथा च चतुर्विशतितीर्थकराणां कल्याणकगणनप्रस्तावे सामान्येन पञ्च कल्याणकान्येव गणयितुमुचितानि, तत्संख्याया एव प्राधान्यात् । नातः एवं ज्ञातुम्, ज्ञापयितुम्, निरूपयितुं वा समुचितं यत् सर्वजिनान्तर्गतः षटूल्याणकोऽपि जिनः पञ्चकल्याणकः, पूर्वोक्तवनोदाहरणवत् । ततश्च पञ्चाशकसूत्रवृत्तौ सामान्यव्याख्यानप्रकरणेषु कल्याणकपञ्चकगणना न षटु
For Private and Personal Use Only