SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं स्वपक्षदोष नावलोकयन्ति । यदि च स्वपक्षभक्षी दोषो नेत्रपथमवगाहेत तदा तु नायमायासावसरः यदि तु स्वदोषमवगणय्य परकीयमपि स्वमतिशिल्पिकल्पनाकल्पितं निर्मूलमेव दूषणं समुद्घोष्य ते समानन्दन्ति, तर्हि तु तेषाम् अपूर्व सौजन्यम्, प्राज्ञत्वं च । पुनश्च श्रीवीरग- कलिका | पहारस्तु सुस्पष्टमेव कल्याणकम् , तत्र पूर्वोक्तकल्याणकस्वरूपस्य सुस्पष्टतया ज्ञायमानत्वात् । किञ्च यथा अन्यतीर्थकरच्यवनकल्याणक वृचियुक्तं. | समये, जनन्याश्चतुर्दशस्वप्नदर्शनः, इन्द्रासनकम्पः, स्वर्गाद् देवसमवतारः, देवेन्द्रकृतस्तुतिश्च समालोक्यते कल्याणकाराधकः, तथा अत्राऽपि व्याख्या. |श्रीवीरगर्भापहारे तत् सर्व सुस्पष्टतया प्रतिभाति । तथा च कलिकालसर्वज्ञकल्पाः श्रीहेमचन्द्रसूरयः "देवानन्दागर्भगते प्रभौ तस्य द्विजन्मनः । बभूव महती ऋद्धिः कल्पद्रुम इवागते ॥६॥ तस्या गर्भस्थिते नाथे यशीतिदिवसात्यये | सौधर्मकल्पाधिपतेः सिंहासनमकम्पत ॥७॥ ज्ञाखा चावधिना देवानन्दागर्भगतं प्रभुम् । सिंहासनात् समुत्थाय शक्रो नखेत्यचिन्तयत् । ॥८॥" तथाच-"कृष्णाश्विनत्रयोदश्यां चन्द्रे हस्तोत्तरास्थिते । स देवस्त्रिशलागर्भे स्वामिनं निभृतं न्यधात् ॥२९॥ गजो वृषो हरिः साभिषेकश्रीः स्रक शशी रविः । महाध्वजः पूर्णकुम्भः पद्मसरः सरित्पतिः ॥ ३०॥ विमानं रत्नपुञ्जश्च निधूमोऽग्निरिति क्रमात् । ददर्श स्वामिनी स्वप्नान मुखे प्रविशतस्तदा ॥३१॥ इन्द्रैः पत्या च तज्ज्ञैश्च तीर्थकृजन्मलक्षणे । उदीरिते खप्नफले त्रिशला देव्यमोदत ॥३२॥xxx गर्भस्थेऽथ प्रभौ शक्राज्ञया जृम्भकनाकिनः । भूयो भूयो निधानानि न्यधुः सिद्धार्थवेश्मनि ॥ ३४ ॥ ॥१६॥ श्रीत्रिषष्टिशलाकापुरुषचरित्रे, दशमपर्वे द्वितीयसर्गे (जैनधर्मप्रसारकसभा) यस्मिन् श्रीवीरगर्भापहाररूपद्वितीयेच्यवने जाते सति पूर्वश्लो-d कनिर्दिष्टं सर्व मङ्गलरूपं संजातम् , स गर्भापहारः कथं न कल्याणकतामासादयेत् ? इति धीधनैर्विचारणीयम् । किञ्च, अत्र कल्याणकविषये ।। For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy