________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
था
आचारागटीकागते पाठे वस्तुशब्दस्य गन्धोऽपि नास्ति, तत्र तु श्रीमता मूलकारेण, श्रीवृत्तिकारेण च केवलं पृथक् पृथक् कल्याणकान्येव गणयित्वा प्रकटीकृतानि । यदि वस्तुव्याख्यापक्षोऽपि परैरुररीक्रियते तदाऽपि पूर्वोक्तयुक्त्या नास्माकं बाधा, नाऽपि च षट्कल्याणकाभावः, उत कल्याणकषटूमेव संसाध्यते तया वस्तुव्याख्यया । अन्यथा यदि सा व्याख्या कल्याणकषटू निषेधपरैव स्यात् तदा तु जगति सर्वकल्याणकाभाव आपद्येत पूर्वदर्शितन्यायेनैव, अतः केनाऽपि प्रकारेण नैतत् कल्याणकषट्राऽभावत्वं संसिद्धिपदवीमारोहति ।। अत्र केचन एवं प्ररूपयन्ति, यत् श्रीवीरगर्भापहारवत् श्रीनाभेयजिनराज्याभिषेकोऽपि कथं न कल्याणककोटिं प्रविशति । तस्य श्रीजम्बूद्वीपप्रज्ञप्त्युपाने संनिर्दिष्टत्वात् । तदेतत् कथनं कल्याणकशब्दतत्त्वाऽपरिचितानामेव, असञ्च तत् । पूर्व तावत् कल्याणकशब्दवाच्यमेव विवेच्यते, तथाहिःयस्य मास-पक्ष-तिथि-दिन-पूर्वकं जघन्य-मध्यम-उत्कृष्टव्याख्यया निर्देशः, तदेव कल्याणकम् , नान्यत् । एतच्च लक्षणं यत्र संजाघटीति तदेव कल्याणकम् । श्रीऋषभराज्याभिषेके तु एतल्लक्षणस्य गन्धोऽपि नाभाति, ततश्च कथं तत् कल्याणकं स्यात् ? । यदि च श्रीऋषभ-| राज्याभिषेकस्य कल्याणकत्वमापाद्यते परैः, तदा अन्येषां राज्याभिषिक्तानां तीर्थकराणां राज्याभिषेकस्य कथं न कल्याणकत्वं स्याद् भवदुकन्यायेनैव । 'श्रीऋषभराज्याभिषेकः कल्याणकम् , अन्यतीर्थंकरराज्याभिषेको न कल्याणकम् एतद् बचो व्याघातशालि युक्तिरिक्तं च । अतश्च श्रीवीरगर्भापहारवत् श्रीआदिनाथराज्याभिषेको न कल्याणकम् , ततश्च नैव पूरापादितः प्रसङ्गो युक्तिसंगतिमङ्गति । यदि च ते | हठात् श्रीप्रथमजिनराज्याभिषेचनं कल्याणकत्वेन आपादयेयुस्तदा तु तद्वद् अन्यजिनेन्द्रराज्याभिषेचनानि अपि कल्याणकत्वेन आपतन्ति | कथं वारयितुं शक्यानि, युक्तियोगस्य उभयत्र तुल्यबलत्वात् । किञ्च, ये परेषां प्रसङ्गापादनेन दूषणं निर्देशयन्ति, ते कथं स्वप्रसङ्गापातेन
For Private and Personal Use Only