________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
कल्पसूत्र
कल्पद्रुम कलिका बृत्तियुक्तं. व्याख्या.
॥१५॥
अन्तेन ग्रन्थेन भगवतो वर्धमानस्वामिनो विमानच्यवनम् , ब्राह्मणीगर्भाधानम् , ततः शक्रादेशात् त्रिशलागर्भसंहरणम् , उत्पत्तिश्चाभिहिता । |'तत्थ पंचहत्थुत्तरेहिं होत्य'त्ति हस्त उत्तरो यासाम् उत्तराफाल्गुनीनां ता हस्तोत्तराः, ताश्च पञ्चसु स्थानेषु-गर्भाधान-संहरण-जन्मदीक्षा-ज्ञानोत्पत्तिरूपेषु-संवृत्ताः, अतो भगवान् अपि "पञ्चहस्तोत्तरोऽभूदिति" ॥ एतत्सूत्रवृत्तौ श्रीवीरस्य च्यवन-गर्भसंक्रमण-जन्मादिपञ्चकल्याणकरूपस्थानानि हस्तोत्तरायां दर्शितानि, पुनः षष्ठं खातिनक्षत्रे निर्वाणं सूत्रकारेणैव उक्तम् , अतो वीरस्य कल्याणकषटुं पूर्वोक्तसूत्रवृत्त्यनुसारेणापि संसिद्ध ज्ञातव्यम् । अत्र केचिद् एवं प्ररूपयांचक्र:-"आचाराङ्गटीकाप्रभृतिषु 'पंचहत्थुत्तरे' इत्यत्र पञ्च वस्तूनि एव व्याख्यातानि, नतु पञ्च कल्याणकानि," तत् तेषां मतमयुक्तम् । वस्तुशब्दस्य सर्वार्थाभिधायकत्वात् , तथाहि-यदस्ति जगति | पदार्थजातं तत् सर्व वस्तुशब्देनैव व्यवह्रियते, निर्दिश्यते च । ततश्च कल्याणकमपि वस्तुरूपमेव, तस्य वस्तुस्वरूपता सद्रूपता च भवतामपि इष्टा, अत एव पूर्वोक्तवस्तुव्याख्यानेऽपि न षट्कल्याणकाभावः साधयितुं शक्यः, उत षटूकल्याणकनिर्णय एव तेन व्याख्यानेन | साध्यते । अतो वस्तुव्याख्यानपक्षोऽपि शास्त्रीयपक्षं पोषयत्येव । किञ्च, योऽत्र संदर्शितो मूलगतो ते णं काले णं' इत्यादिपाठः, ततस्तु कल्याणकषटुमप्रतिहतमेव प्रतीयते, तत्र षष्ठस्य निर्वाणलक्षणकल्याणकस्य स्वातौ संसूचितत्वात् । यदि च वस्तुव्याख्यानेन कल्याणकनिषेधः साध्यते तर्हि तत्र वा अन्यत्र सर्वत्र वस्तुव्याख्यया सर्वेषां तीर्थकराणां कल्याणकाभावप्रसङ्गः । स च नेष्टः केषांचिदपि । अन्यच यथा अन्यतीर्थकराणां वस्तुव्याख्ययाऽपि न कल्याणकबाधा, तथा श्रीवीरस्याऽपि वस्तुव्याख्यानपक्षो कथं कल्याणकषर्टी बाधेत ? । वस्तुव्याख्यायाश्च सर्वत्र समत्वाद् एकया व्याख्यया एकत्र विधिः, अन्यत्र निषेधश्च साधयितुं दुःशक्यो न्यायपक्षं कक्षीकुर्वद्भिः । किञ्च,
For Private and Personal Use Only