SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शैलशृङ्गादौ च निर्वाणे-पृथक् पृथग् भूमिस्थाने एकैककल्याणकं जायते। ततः तीर्थकरच्यवनादिस्थानककथनेन तत्स्थानकं कल्याणकपर्यायतमा समवबोध्यम् । अत एव च तीर्थकरचरित्राधिकारे च्यवनादिविषये प्रसङ्गतः समायातः स्थानशब्दः कल्याणकसमानार्थो बोध्यः । तथाहिः"श्रीआदीश्वरस्य मोक्षगमनस्थानम् अष्टापदे, मोक्षभूमिश्चाष्टापदे, मोक्षकल्याणकम् अष्टापदे" इति एतानि त्रीणि एकार्थानि, समानार्थानि, पर्यायतालंकृतानि इति यावत् । तथैव श्रीवीरस्यापि च्यवनादिमोक्षपर्यन्तानि षट् स्थानकानि षट्कल्याणकतया समवसेयानि ।।अत्र केचित् पद्मप्रभ-सुविधि-शीतलप्रभृतिवीरपर्यन्तचतुर्दशतीर्थकराणां च्यवनादिसप्ततिकल्याणसंबन्धिनं स्थानशब्दं दृष्ट्वा सप्ततिस्थानानि संसाधयन्ति, ततश्च च्यवनादिसप्ततिकल्याणकाभावं चाविर्भावयन्ति । तदसत् । यतः स्थानशब्दस्य कल्याणकसमानार्थतया सनिर्णयं सप्रमाणं चप्रसाधितत्वात् तदुक्को निर्णयो नैव औचितीमञ्चति । पुनरपि च, श्रीआचाराङ्गे द्वितीयश्रुतस्कन्धे भावनाध्ययने वीरचरित्रे श्रीवीरस्य कल्याणकषटू प्रज्ञापितम् । तद्यथाः| "तेणं कालेणं, तेणं समयेणं समणे भगवं महावीरे पञ्चहत्थुत्तरे यावि होत्था, तं जहा-१. हत्युत्तराहिं चुए, चइत्ता गम्भ वकन्ते. २. हत्युत्तराहिं गम्भाओ गम्भं साहरिए. ३. हत्थुत्तराहिं जाए. ४. हत्थुत्तराहिं सबतो सबताए मुंडे भवित्ता अगाराओ अणगारिश्र पवइए. ५. हत्थुत्तराहिं कसिणे, पडिपुण्णे, निवाघाए, निरावरणे, अणते, अणुत्तरे केवलवरणाण-दसणे समुप्पने. ६. साइणा भगवं परिनिव्वुए"। NI तथा च श्रीशीलाकाचार्यकृता तद्वृत्तिर्यथा-'तेणं कालेणं' इत्यादि । तेन कालेन इति दुःषमसुषमादिना 'तेन समयेन' इति विवक्षितेन विशिष्टेन कालेन सता उत्पत्त्यादिकमभूद् इति संबन्धः । तत्र 'पंचहत्युत्तरे यावि होत्था' इत्येवमादिना 'आरोयारोयं पसूयत्ति इति एवम् For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy