SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥२०॥ खामिन् ! स चाऽग्निरस्मादपि अतीव क्षुधातुरः, वयं यत् तत्र पाकाय क्षपयामः तदस्मभ्यं पश्चान्न ददाति, कल्पद्रुम वयं किं कुर्मः? क्षुधितं निजोदरं दर्शयन्ति, रुदन्ति । तदा श्रीऋषभदेवो गजमारुह्य बहिर्निर्गत्य तटाकात कलिका साद्रमृत्तिकां तेभ्य आनाय्य गजकुम्भस्थलोपरि मृत्तिकाया हण्डिकां घटित्वा, अग्नौ संपाच्य तन्मध्ये पानीया- वृत्तियुक्तं. नयोः प्रमाणं पाकविधि दर्शयित्वा तान युगलिनो भोजियामास । ततः पश्चात् सर्वत्र पचनविधिलोके प्रकटी-IN व्याख्या. बभूव । तदा श्रीऋषभदेवेन पश्च शिल्पानि प्रकटीकृतानि-घटकर्म कुम्भकारकर्म १ लोहकारकर्म २ चित्रकर्म । सूत्रधारकर्म ४ नापितकर्म ५ एतानि कर्माणि पुनर्भगवता शतभेदानि दर्शितानि । अत्र च एकस्य एकस्य कर्मणो विंशतिरवान्तरभेदाः भवन्ति । तदा च शतभेदाः भवन्ति । ततो भगवतः प्रजापतिरिति नाम अभूत् । अथ श्रीऋषभदेवेन ब्राह्मी दक्षिणहस्तेन अष्टादशलिपयो दर्शिताः, लेखनं लिपिः १८नन्दीसूत्रे उक्ताः, तद्यथा-हंसलिपि १ भूतलिपि २ यक्षलिपि ३ राक्षसीलिपि ४ उड्डीलिपि ५ यावनीलिपि ६ तुरकीलिपि ७ कीरी लिपि ८ द्राविडीलिपि ९ सैन्धवी लिपि १० मालवीलिपि ११ नडीलिपि १२ नागली लिपि १३ लाटीलिपि १४ पारसीलिपि १५ अनिमित्तीलिपि १५ चाणक्कीलिपि १७ मौलदेवी १८। देशविशेषादन्या अपि लिपयः, तद् ॥२०३॥ यथा-लाटी १ चौडी २ डाहली ३ कानडी ४ गूर्जरी ५ सोरठी ६ मरहट्ठी ७ कोंकणी ८ खुरासाणी ९ मागधी १० सिंहिली ११ हाडी १२ कीरी १३ हम्मीरी १४ परतीरी १५ मसी १६ मालवी १७ महायोधी १८ इत्यादयो For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy