SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्तेषाम् उग्रवंशः १ ये गुरुत्वेन स्थापितास्तेषां भोगवंशः २ ये च मित्रत्वेन स्थापितास्तेषां राजन्यवंशः ३ अन्ये ये सेवकत्वेन स्थापितास्ते क्षत्रियाः ४ । अष्टादशवर्णस्थापनं कृतम् । भरतस्य सार्थे प्रसूता बाली सा बाहूबलाय परिणायिता, बाहुबलसार्थे जाता सुन्दरी सा भरतस्यार्पिता, भरतेन स्त्रीरनार्थं रक्षिता, एवं युगलधर्मो निवारितः श्रीऋषभदेवेन, अथ कालवशात् क्षुधा बही लगति, कल्पवृक्षा नष्टप्रभावाः सञ्जातास्तदा युगलिनः कन्दफलमूलपत्रादीनाम् आहारं कुर्वन्ति तदाहारो न पचति । तदा शालिधान्यं निष्पन्नं श्री ऋषभस्वामिना दृष्टं तल्लात्या, हस्तेन मर्दयित्वा कणान्निष्काश्य युगलिनां दत्तम्, तदाप्युदरं तुदति । कञ्चम् अन्नं मूलं फलं चाऽपि कल्पवृक्षप्रदत्ताहारभक्षकाणां तेषाम् उदरे न जीर्यते । ते चागत्य ऋषभदेवाय उदरं दर्शयन्ति । भगवानपि तेषाम् उदरं पीड्यमानं स्पर्शयित्वा निराबाधं करोति । कल्पवृक्षैर्विना ते अतीव दुःखिनो भवन्ति । तस्मिन् प्रस्तावे वनमध्ये अग्निरुत्पन्नः, तत्र च पुरा अष्टादशकोटिसागरपर्यन्तं भरतक्षेत्रे बादरोऽग्निर्नासीत् । तम् अपूर्वम्, नवीनम्, निर्मलम्, आश्चर्यकरं पदार्थ दृष्ट्वा युगलिनस्तं गृहीतुं करं चिक्षिपुः । ते च तेन ज्वल|न्ति स्म । तदा श्रीऋषभाय खकीयम् अङ्गं दर्शयन्ति । खामिना अग्नेरुत्थानं ज्ञात्वा तेभ्यः आदेशो दत्तः-अतः परं कन्दमूलबीजपुष्पपत्रादिकम् अग्नौ पकं भृष्टं कृत्वा भक्षणीयम् । तत् श्रुत्वा ते कन्दादिकं प्रज्वलति अग्नौ क्षिपन्ति तत् पुनः गृहीतुं न शक्नुवन्तञ्चैव तत्रैव तद् भस्मीभवति । पुनः ऋषभदेवाग्रे आगत्य पूत्कुर्वन्ति - For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy