________________
Acharya Shri Kailassagarsun Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कल्पसूत्रं
॥२०२।।
कल्पद्म कलिका वृचियुक्कं. व्याख्या.
दृष्ट्वा पादयोरङ्गुलीनामुपरि पानीयं ढोकयामासुः। इन्द्रस्तेषु विवेकम् , विनयं च दृष्ट्वा “साहु-विणीया पुरिसा, जाया विणीया हु नाम नयरीए। इंदेण कयं नाम, लोयपसिद्धा य सा जाया" ॥ तत्र विनीता नगरी स्थापिता। इन्द्रेण धनदस्य नगरस्य स्थापनाय आदेशो दत्तः । धनदेनागत्य द्वादशयोजनाऽऽयामा नवयोजनविस्तीर्णा, अष्टौ प्रतोल्यः, एकशतधनुरुञ्चेन, पञ्चाशद्धनुःपृथुलेन, स्वर्णवप्रेण वेष्टिता । तत्र मध्ये ईशानकूणे सप्तभूमिक मन्दिरं नाभिभूपस्य निवासार्ह चतुष्कोणं कृतम् । पुनः पूर्वस्यां दिशि तादृक्स्वरूपमेव भरतस्य गृहम् अपि कृतम् । पुनरग्निकूणे बाहुबलवसनार्थ रचितम् । अष्टानवतिकुमाराणां भुवनानि दक्षिणस्यां दिशि। अन्येषामपि क्षत्रियाणां यथायोग्यानि निर्मितानि पश्चिमायाम् । नवनारू-नवकारूणां गृहाणि कृतानि उत्सरस्याम् । व्यापारिणां गृहाणि निर्मितानि नगर्या अन्तराले । एकविंशतिभूमिकं त्रैलोक्यविभ्रमं नाम प्रासादं श्रीऋषभदेवस्य निवासार्हम् एकशताष्टाधिकजालिकासहितं कृतम्। अन्यैरपि घनर्जिनमन्दिरैः सहिता विनीता नगरी स्थापिता ॥ जन्मकालादारभ्य विंशतिपूर्वलक्षवर्षाणि यदा श्रीऋषभदेवस्य व्यतीतानि तदा राज्याभि
कोत्सव इन्द्रेण कृतः, देवदूष्याणि परिधापितानि, चन्दनस्य विलेपनानि भगवतः शरीरे कृतानि । एवं विनीतानगर्या श्रीऋषभदेवं संस्थाप्य इन्द्रः स्वस्थानं जगाम । अथ श्रीऋषभदेवेन हस्तिनः, अश्वाः, गावश्च मनुष्याणां योग्यास्तेषां संग्रहः कारितः, पश्चाच्चतुर्वर्णस्थापनं कृतम्, पश्चान्नगर्या रक्षाकाराः कोपालाः स्थापिता
॥२०२||
For Private and Personal Use Only