________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
इन्द्राण्यः कन्ययाः पक्षे जाताः । सर्वे उत्सवमहोत्सवान् चक्रुः । विवाहविधिं विदधुः । स इन्द्रदर्शितो विवाहविधिरद्यापि लोके भवति । सुनन्दा-सुमङ्गलाभ्यां सहितस्य श्रीऋषभदेवस्य विषयसुखं भुञानस्य षट्पूर्वलक्षाणि व्यतीतानि । तदा सुमङ्गलया भरत-ब्राह्मीरूपं युगलं प्रसूतम् । सुनन्दया बाहूबलि-सुन्दरीरूपं युगलं प्रसूतम् । ततः पश्चात् पुनः सुमङ्गलया एकोनपश्चाशद् युगलानि प्रसूतानि ।सुनन्दायाश्च एकमेव युगलमऽभूत्, पुनः सन्तानं किमपि नाऽभूत् । अथ यदा यदा कालो हीनो हीनः समागतः तथा तथा कल्पवृक्षाणां महिमा न्यूनो जातः। युगलिनः परस्परं क्रोधाद् विरूपं कुर्वन्तो हकार-मकार-धिकारादिनीतिवाक्यैर्निर्भय॑माना अपि न विरमन्ति । नाभिकुलकरो वृद्धो बभूव तदा युगलिनो मिलित्वा ऋषभं विज्ञपयन्ति, अस्माकं न्यायं कुरु।तदा श्रीऋषभो वक्ति-यो राजा भवति स दण्डं करोति । अहं तु राजा नास्मि ।युगलिभिरुक्तम्-अस्माकं भवानेव राजा । तदा श्रीकभदेवेनोक्तम्-नाभिकुलकराः प्रष्टव्याः, ते यद् वदन्ति तत् प्रमाणम् । युगलिभिनाभिकुलकराज्ञया गङ्गानदीतटे रेणुपुञोपरि ऋषभदेवं संस्थाप्य वयं राज्याभिषेकार्थ जलानयनाय युगलिनो जग्मुः। तस्मिन् प्रस्तावे इन्द्रस्य आसनप्रकम्पो बभूव । अवधिज्ञानेन श्रीऋषभदेवस्य राज्याभिषेकोत्सवावसरं ज्ञात्वा इन्द्र आगत्य राज्ययोग्यं मुकुट-कुण्डल-हाराद्यलङ्कारं परिधाप्य, उच्चैः स्वर्णसिंहासने संस्थापयामास । तावत् ते युगलिनो कमलिनीपत्रे नीरं भृत्वा आजग्मुः । सर्वशरीरं सालङ्कारं दृष्ट्वा, वस्त्रादिभूषितं
For Private and Personal Use Only