SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥२०१॥ कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. मरुदेवी श्रीऋषभदेवं दृष्ट्वा मनसि चिन्तयति-हे पुत्र ! त्वं सर्वेषां देवानां देवीनां च वल्लभः, अत्यन्नं सौभाग्ययुक्तः । देवागनाभिरेव लाल्यसे, इन्द्रेण अङ्गुष्ठे सञ्चारितामृतेनाऽऽहारं करोषि, तर्हि अहं केन गुणेन तव | जननी भवामि? । अथ च भगवतो देशेन ऊनं वर्षमभूत् । अस्मिन् समये इन्द्रो वंशस्थापनार्थ हस्ते इक्षयष्टिं गृहीत्वा आगच्छति । इन्द्रं च आगच्छन्तं दृष्ट्वा श्रीऋषभदेवो जानुभ्यां चलित्वा, इक्षुयष्टिं गृहीत्वा उत्थितः, इन्द्रेण मनसि ज्ञातम्-भगवतः इक्षुयष्टिभक्षणाऽभिलाषो जातः, ततः इक्ष्वाकुवंशो ज्ञेयः । अपरे तीर्थकरा बाल्यावस्थायाम् अङ्गुष्ठसञ्चारिताहारं कुर्वन्ति, पश्चादग्निपक्काऽमृताहारं गृह्णन्ति, ऋषभदेवस्तु देवाऽऽनीताद् देवकुरु-उत्तरकुरुक्षेत्रात् कल्पवृक्षफलाहारं कुर्वन्ति । संयमग्रहणानन्तरं प्रासुकाहारं गृह्णन्ति । अथ पुनर्मरुदेवी ऋषभदेवं धूलिधूसरशरीरं रममाणं दृष्ट्वा चक्षुर्निमील्य, हृदयेन संपीड्य तिष्ठति । अत्र कविर्भावं विचारयति-मरुदेवी चक्षुषी संमील्य मध्ये विलोकयति, मम हृदयं हर्षेण कियत् पूर्ण वर्तते । अथ कियत् पूरणीयमस्ति । हृदयं तु बाद्यदृष्ट्या विलोकयितुं न शक्यते । पुनरहं तव उपकारं किमपि कर्तुमशक्ता, त्वया तु मम बहून्युपकाराणि कृतानि । तव प्रभावात् सर्वैः देवेन्द्ररहं वन्दनीया, पूजनीया, नमनीया सजाता इत्युक्त्वा प्रमोदयति । एवं मातृपित्रोः मनोरथेन सह भगवान् श्रीऋषभदेवो बर्द्धते । अथ भगवान भोगसमर्थो जातस्तदा चतुर्निकायानां देवाः, देव्यश्च मिलित्वा सौधर्मेन्द्र इन्द्राण्या सहितश्चागत्य वरपक्षे इन्द्रादयो भूत्वा, ॥२०१॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy