SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रीणां आगमनम् , वसुधाराणां वर्षणम्, शक्रादिभिर्जन्माभिषेककरणं देवानां कर्तव्यं श्रीवर्द्धमानखामिजन्मवद ज्ञेयम् । प्रातः समये च बन्दिमोक्षणम् , मानोन्मानप्रमाणवर्द्धनम्, करादीनां मोक्षणम् , जूसरमुशलादीनाम् । ऊर्द्धकरणम् , इत्यादि मनुष्याणां पुत्रजन्मयोग्यो व्यवहारो नाऽभूत् । अयमेव विशेष:-यतस्ते युगलिकाः सन्ति, किमपि व्यवहारं न जानन्ति तेन हेतुना इन्द्रादयो देवाः सर्व खकीयविधिव्यवहारं कुर्वन्ति । अथ। मरुदेव्याः, पूर्व खमसमये वृषभस्य दर्शनात्, पुत्रस्य उभयोजेङ्घयोः रोम्णाम् आवर्तभ्रमणावलोकाद् वृषभ-II स्याकारस्य लञ्छनाद नाभिकुलकरेण 'ऋषभः' इति नाम दत्तम् । अथ च भगवान् देवभवात् च्युत्वा आगतो महोत्कृष्टरूपलावण्यधारीदेव-देवीवृन्दैः लाल्यमानः, इन्द्राणीभिः स्वाङ्के धार्यमाणः । सुनन्दया युगलिन्या सहितः, अपरया च सुमङ्गलानाम्ना अकाले मस्तके पतिततालफलेन मृतभ्रातृकया युगलिन्या, युगलिकैरानीय नाभिभूपाय समर्पितया नाभिराज्ञा ऋषभस्य विवाहार्थं रक्षितया वर्द्धमानः, भ्रमरवर्णशिरोरुहः, कमलदललोचना, पक्कबिम्बसदृशोष्ठः, दाडिमबीजसदृशदशनः, तप्तकाञ्चनशरीरद्युतिः, कमलसुगन्धश्वासः, अप्रतिपातिज्ञानत्रयविराजमानः, सर्वलक्षणैः सम्पन्नः ऋषभदेवो वर्तते । अथ श्रीऋषभकुमारो बाल्यावस्थया क्रीडन् मातुः हृदये सन्तोषमुत्पादयन् जानुभ्यां गृहाङ्गणे सञ्चलन्, मन्मनभाषया जल्पन्, सम्यकप्रकारेण हसन् , दूरस्थितं वस्तु आनयनाय शनैः शनैः ब्रजन् , एवं बाललीलां कुर्वन् मरुदेव्या विलोक्यते स्म । तदा च For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy